________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥५०॥
252525252PSSISESTS
श्री शत्रुजयस्य-मरुदेवनामोपरि चन्दनमहीपतिकथा ॥ मुक्तिगतं निजं तातं मत्वा चन्दनभूतिः । सिद्धार्मरुदेवेति नामाऽदात् लसदुत्सवम् ॥१॥ तथाहि-वीराह नगरेऽनङ्ग-सेनस्य धरणीपतेः । मरुदेव्यभिधा पत्नी बभूवाऽनघशीलभाम् ॥२॥ राश्यन्यदा सुखं सुप्ता मरुदेवा लसत्तनुः । स्वप्नेऽपश्यत्तमां नाभि-नन्दनं पूजितं सुमैः ॥३॥ प्रातः राज्ञी नृपस्याग्रे स्वप्नवृत्तान्तमूचुषी । राजाऽऽचष्टात्मनः पुत्रः पुण्यवाँश्च भविष्यति ॥४॥ ततो राज्युदरे पुण्य-वति प्राणिनि सदिने । अवतीर्णेऽभवन्नेवं दोहदाः प्रतिवासरम् ॥५॥ * अर्चयामि जिनं दानं शुद्धं ददामि साधुषु । यात्रां कुर्वे सुतीर्थेषु सुश्राद्धान् भोजयाम्यहम् ॥६॥ उच्चस्थे तरणौ चन्द्रे राज्यस्त सुतं वरम् । तस्य नाम महीपालो मरुदेवेत्यदान्मुदा ॥७॥ यथा यथा कुमारोऽथ ववर्द्ध मदनोपमः । तथा तथाऽवनीपाल-राज्यं वृद्धिमुपैति च ॥८॥ चन्द्रपुरे हरक्ष्माप-नन्दिनी कमलाभिधाम् । पित्रा परिणायितः पुत्रो मरुदेवो वरेऽहनि ॥९॥ कृत्वा जिनार्चनं भावात् प्रतिलाभ्य यतीन् मुदा । भोजयित्वा वरश्रद्धान् कुमारोऽत्ति निरन्तरम् ॥१०॥ * यत-'पढमं जईणं दाऊण अप्पणा पणमिऊण पारेइ । असई अ सुविहियाणं भुंजेइ अकयदिसालोओ॥११॥ * साहूण कप्पणिज्जं जं नवि दिन्नं कहिंचि किंपि तहिं । धीरा जहुत्तकारी सुसावगा तं न भुजंति ॥ १२॥
$225S125525252525252SE
॥५०
For Private and Personal Use Only