________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
पञ्चाशद्योजनो मुक्तिदर्शनात् स्पर्शनादपि । ये जातास्ते गमिष्यन्ति कालेनापि परां गतिम् ॥ ३९॥ तेपां जन्म च चित्तं च जीवितं सार्थकं च ये । सिद्धक्षेत्राचलं यान्ति परेषां व्यर्थमेव तत् ॥४०॥ चतुर्विशतयोऽनन्ताः सिद्धाः सिद्धाचलेऽर्हताम् । सेत्स्यन्ति चैवानन्ता याः तत्सङ्खयां वेत्ति केवली ॥४१॥ श्रुत्वेति चन्द्रचूडक्ष्मा-पतिः पुष्पैः सुगन्धिभिः । अपूजयन्मुदा सिद्ध-राजं तीर्थं च सङ्घयुग् ॥ ४२ ॥ विधाय विस्ताराद्यात्रां चन्द्रचूडावनीधवः । आजगामोत्सवाद्वैतं स्वपुरोद्यानभूतले ॥ ४३ ॥ भोजयित्वाऽखिलं सङ्घ परिधाप्याम्बरैवरैः । विसृज्य नृपतिः स्वीय-सद्माऽगात्समहोत्सवम् ॥४४॥
शत्रुञ्जय कल्पवृ०
॥४८॥
ISESSETESTSSTISP5925
SELES259USESTEESSTSSESE
॥ श्री बाहुबलिनामोपरि केलिप्रियभूपकथा । यात्रां शत्रुञ्जये कृत्वा केलिप्रियमहीपतिः । सिद्धाद्रेः प्रददौ बाहु-बलिनाम सदुत्सवम् ॥१॥ कलाकेलिपुरे केलि-प्रियस्य मेदिनीपतेः । केलिप्रिया प्रिया जाता शीलादिगुणशालिनी ॥ २ ॥ शोभनेऽहनि सुतं केलि प्रियाऽसूत सुलक्षणम् । पिता बाहुबलि म ददौ सूनोः सदुत्सवम् ॥३॥ वर्द्धमानः क्रमाद्वाहु-बलिः पण्डितसन्निधौ । अशिक्षयत् कला वर्यास्तथाऽजनि यथा बुधः ॥ ४ ॥
॥४८॥
For Private and Personal Use Only