________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
SESESTSISESTSESEITSS2SC
लक्ष्मीधरयतेस्तत्र शुक्लध्यानं वितन्वतः । उत्पन्नं केवलज्ञान विश्वविश्वप्रकाशकम् ॥ २६ ॥ ततो लक्ष्मीधरस्यर्षेः केवलज्ञानसूत्सवम् । क्रियमाणं सुरैः श्रुत्वा सङ्घः शेषः समागमत् ॥ २७ ॥ देवैर्विनिर्मिते हेम-पद्मे निविश्य केवली । श्रीसङ्घस्य पुरो धर्मोपदेशमिति दत्तवान् ॥ २८ ॥ * “दिवस निसाघडिमालं आऊ सलिलं जणस्स चित्तणं । चंदाइच-बइल्ला कालरहट्ट भमाडंति ॥ २९ ॥ ॥ * जलनिहिसंठिअपवहण इक्काबनभागसरिसगिहकज्जे । बावन्न-भागसरिसो जिणधम्मो होइ कायब्बो ॥ ३०॥॥ * छायामिसेण कालो सयलजिआणं छलं गवसंतो । पासं कह नवि मुंचइ तो धम्मे आयरं कुणह ॥ ३१॥॥ * दोहा:-कम्मह वारह रुपउओ धम्मह मंदी देह । आपणसरिसो चोरडी तइं किमु सीखी एह ॥ ३२॥॥ एवं धर्मोपदेशं तु श्रृण्वतां भव्यदेहिनाम् । कोटिद्वयप्रमाणानां जज्ञे ज्ञानमनुत्तरम् ।। ३३ ॥ सर्वेषां ज्ञानिनां तेषां ज्ञानोत्पत्तिमहोत्सवम् । आदौ चक्रुः सुरा भूपास्ततो भूरिधनन्ययात् ॥ ३४ ॥ अस्मिंस्तीर्थे तपोध्यान-मौनाहत्पूजनादिभिः । भवन्ति भविनः सिद्ध-राजानोऽनेकशः क्षणात् ॥ ३५॥ अतोऽस्य तीर्थराजस्य सिद्धराजाभिधा वरा । उच्यतां निखिललोकैरित्यवक् स नरेश्वरः ॥ ३६॥ युग्मम् ॥ सिद्धराजेति लोकेषु ध्यायत्सु भूरिषु स्फुटम् । बभूव केवलज्ञानं देवा ज्ञानोत्सवं व्यधुः ॥ ३७॥ चन्द्रचूडस्तदा ज्ञानि-पार्थं श्रयन् वृष वरम् । शत्रत्रयस्य माहात्म्य-मश्रृणोदिति सादरम् ॥ ३८ ॥
2SSISTSESTAS2S2SSESESSES
४७॥
For Private and Personal Use Only