________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय कल्पवृ० ॥ ४६ ॥
125725 25 25 25 25
www.kobatirth.org
खगो भग्नकटिः सोऽपि रुदन् क्रन्दन् बहुस्वरम् । रोदयामास पार्श्वस्थान मृमफेरुरुरूनपि ॥ १३ ॥ तदा खगो जगी व्योम गामिन् ! किं रुद्यते त्वया । खगोsवग् मम देहेऽस्ति वेदना प्राणहारिका ॥ १४ ॥ व्योमगामिन् ! त्वया भूमी - पतिपुत्रापहारतः । यत्पापं विहितं तस्य वीजमात्रमिदं फलम् ॥ १५ ॥ परलोकफलं श्वभ्र पातरूपं भविष्यति । तत्र या विद्यते पीडा तस्या ( सा हि ) वक्तुं न शक्यते ॥ १६ ॥ स दुष्टव्योमगोप्राक्षीत् मया पापं कृतं बहु । अतः परं कुमारस्योपरि दुष्टं न चिन्त्यते ॥ १७ ॥
ततोsन्यो व्योमगो विद्या प्रभावात् तस्य विग्रहात् । अपाचक्रेऽचिराद् दूरं वेदना दुःखदायिनी ॥ १८ ॥ ततो द्वाभ्यां खगामिभ्यां मिथो मैत्रीं प्रपद्य च । ददिरे तस्य सद्विद्या व्योमगाद्या मनोहराः ॥ १९ ॥ इतोsप्रेक्ष्य सुतं भूपो दुःख्यरण्ये जनेऽभितः । न्यवर्त्तयत् पुरीमध्ये गीतगानादि सर्वतः ॥ २० ॥ दुःखितो नृपतिर्यावदुपाविष्टः सभान्तरे । तावत्पुत्रो युतो द्वाभ्यां खगाभ्यामीयिवान् ध्रुवम् ॥ २१ ॥ विद्याधरं सुतं मत्वा तयोन्यमगयोर्मुखात् । राजा हृष्टो ददौ राज्यं सूनवे नयशालिने || २२ | लक्ष्मीधरो नृपः कृत्वाऽष्टानिकां जिनसद्मसु । अग्रहीत् संयमं धीर सूरीश्वरान्तिके मुदा ॥ २३ ॥ लक्ष्मीधर यतिस्तीव्रं तपः कुर्वन् सदादरात् । ययौ शत्रुञ्जये तीर्थे सार्द्ध गुरुभिरन्यदा ॥ २४ ॥ इतस्तत्र नृपश्चन्द्र- चूडोsपि भूरिसङ्घयुग् । अभ्येत्य सङ्घकृत्यानि चक्रे स्नात्रपुरस्सरम् ॥ २५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
Sa52525252552525252525
॥ ४६ ॥