________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
शत्रुञ्जय कल्पवृ०
॥४५॥
CSTSESESSE52SSTSEISSESZE
॥ श्री सिद्धराजोपरि चन्द्रचूडादिभूपकथा । यात्रां कृत्वा नृपश्चन्द्र-चूडो धर्मपरायणः । सिद्धाद्रेः सिद्धराजति नाम चक्रे सदुत्सवम् ॥१॥ कलाकेलिपुरे लक्ष्मी-धरस्य मेदिनीपतेः । लक्ष्मीवत्यभिधा पत्नी बभूवानघशीलभाग् ॥ २॥ बहूपयाचितैः पुत्रोऽजनिष्ट शुभवासरे । तस्य राज्ञोऽभवत् प्राणादपि वल्लभ एव सः ॥३॥ जन्मोत्सवं नृपः कृत्वा भूयिष्ठविभवव्ययात् । चन्द्रचूडेति नामाऽदात् मूनोः सञ्जनसाक्षिकम् ॥४॥ धर्मकर्मकला या या विद्यन्ते विबुधान्तिके । तास्ताः सर्वाः कुमारेण शिक्षिता लीलया किल ॥५॥ कुमारः केनचिद्व्योम-गामिना पूर्ववैरिणा । अपहृत्य महारण्ये मुमुचे दुःखहेतवे ॥६॥ जलाभावात्तृषा लग्ना यावत्प्राणापहारिका । तावत् स केनचिद् व्योम-गतिनोत्पाट्य यत्नतः ॥ ७ ॥ मुक्तो जलाशये पातुं पानीयं राजनन्दनः । यतः पुण्यवतां पुण्यं जागति विपदि ध्रुवम् ॥ ८॥ युग्मम् । यावत् पिबति पानीयं कुमारो माररूपभृत् । तावदुत्पाटय तं व्योम्नि हन्तुं विद्याधरोऽचलत् ॥९॥ आस्फालयति कीराद्रि-प्रस्थे तं यावता खगः । तावदेको बली व्योम-गामी तत्राऽऽगतो जगौ ॥१०॥ दुष्ट ! पापिष्ठ ! विद्याभृत् ! किमेनं नरपुङ्गवम् । हंसि ? विभेषि नो पापात् मत्तो वा किल साम्प्रतम् ॥११॥ उक्त्वेति व्योमगो व्योम-गमरिं तं दुराशयम् । हत्वा पृष्ठौ दृढं कुजं व्यधान्मुष्टिप्रहारतः ॥१२॥
SPSSSSSSSSSSSSS
For Private and Personal Use Only