________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
गुरूदितं वितन्वानौ धर्मा द्वावपि सोदरौ । ययतुः पुण्डरीकाद्रौ नन्तु श्रीकृषभं जिनम् ॥ २१ ॥ तत्र देवान् नमस्कृत्य ध्यानमौनपरायणौ । मृत्वा ती सोदरी स्वर्गे प्रथमे ययतुः समम् ।। २२ ।। अवधिज्ञानतो ज्ञात्वा प्राग्भवं स्वं सुरौ च तौ। आगत्य पुण्डरीकाद्रौ स्थिती यावत् प्रमोदितौ ॥ २३ ॥ तावत्तत्र रमापुर्याः स्वामी मुकुन्दभूपतिः । असङ्ख्यसङ्घसंयुक्तः समागानन्तुमर्हतः ॥ २४ ॥ भूपे स्नात्रं वितन्वाने जिनस्य तौ सुरौ तदा । अपूर्व चक्रतुनर्नाटयं नमन्तौ श्रीजिनाधिपम् ॥२५॥ मुकुन्दो भूपतिः पूजां ध्वजान्तां विधिपूर्वकम् । कृत्वा केवलिनः पार्श्वे धर्म श्रोतुं समीयिवान् ॥ २६ ॥ तदोचतुः सुरौ द्वौतु क्वाऽऽवां मुक्तिर्भविष्यति ? | केवल्याहाऽत्र सिद्धाद्रौ गमिष्यतो युवां शिवम् ॥ २७॥ ततस्तौ प्रोचतुर्देवी सिद्धपर्वत एव तु । आवयोमुक्तिगमनाद् गीयताममरैरपि ॥ २८ । तौ देवौ पर्वते तत्र सेवित्वाऽर्हत्क्रमाम्बुजम् । नत्वा च ज्ञानिनं स्वर्गे जग्मतुर्मुदिताशयौ ॥ २९॥ ततश्च्युत्वा सुरौ तौ तु प्राप्य मर्त्यभवं क्रमात् । लात्वा दीक्षां गतौ सिद्धिं सिद्धपर्वतमस्तके ॥३०॥
5252525252SESSPS52525
Ass52525ESRSSESSES
॥ ४४ ॥
॥४४॥
For Private and Personal Use Only