SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir %3Aampaign शत्रुञ्जय कल्पवृ० ॥४३॥ SESTSE25252SSES25252SSESE ततो हरहरी कृत्वा मृत्युकृत्यं पितुर्धनात् । व्यवसायं वितन्वानौ न क्षणं निवृतः स्म तौ ॥८॥ यथा यथा वितन्वाते व्यवसायं हरो हरिः । तथा तथा त्रुटत्येव धनं ग्रीष्मे यथा पयः ॥९॥ * के वंका के पद्धरा पहा दीहा हुँति नराण । हरिस विसाय न आणीइ निअ हिअडइ अप्पाण ॥१०॥5 क्रमान्निविभवौ जातौ सोदरौ तौ हरो हरिः । धनार्थ गणकान् नित्यं पप्रच्छतुः कृतादरौ ॥११॥ * यतः-रोगिणां सुहृदो वैद्याः प्रभूणां चाटुकारिणः । मुनयो दुःखदग्धानां गणकाः क्षीणसम्पदाम् ।। १२॥॥ तत्रान्यदा समायाताः श्रीधनेश्वरसूरयः । गत्वा तेषां समीपेऽतो पप्रच्छतुः कृताञ्जलि ॥१३॥ विलोक्य ज्योतिषं यूयं अथावयोः कदेन्दिरा । भविष्यति गृहे प्रोचु-स्ते तु तौ नैगमौ प्रति ॥१४॥ ज्योतिष्क-मन्त्र-तन्त्रादि कथितुं कल्पते नहि । साधूनां निर्वृतीच्छूनां मनाक पातकहेतुकात् ॥१५॥ * यत:-"जोइसनिमित्तअक्खरकोऊआएसभूइकम्मेसु । करणाणुमोअणेहि अ साहुस्स तवक्खओ होइ ॥१६॥" कृतपुण्यस्य जीवस्य स्थितस्य शयितस्य वा । अनुद्यमस्य समैति लक्ष्मीनद्य इवाम्बुधिम् ॥१७॥ यद्यस्ति भवतो वाञ्छा सुखायाऽत्र परत्र च । तदा जैनं वृषं भावात् कुरुतां वां शिवप्रदम् ॥१८॥ ततस्तौ प्रोचतुर्लक्ष्मीः सदनेऽस्त्यावयो नहि । धर्मस्थानेषु तेन श्री-रावाभ्यां व्ययते कथम् ॥ १९ ॥ गुरवो जगदुस्तहिं कुरुतं सन्ध्ययोर्द्वयोः । प्रतिक्रान्ति नमस्कारान् स्मरतं च शतत्रयम् ॥ २० ॥ SESTISPSSTSESZI5PSSPSSESTI ॥४३॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy