________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥३८॥
12SSTSETSESSISSISSISSIS,
पालयन् शुद्धचारित्रं वर्ष क्रियाकलापकृत् । पुण्डरीको ददौ धर्मो-पदेशं भविनां पुरः ॥१८॥ धर्मोपदेशोऽत्र वाच्यः तदानीं पञ्चकोटीभिर्वर्यसाधुभिरन्वितः । पुण्डरीको गणी ध्यान-लीनचित्तोऽभवत्तदा ।। मासक्षपणमुच्चर्य पुण्डरीकादयस्तदा । सर्वे वाचंयमाः शुक्लध्यानारूढा बभुर्भृशम् ॥ २० ॥ चैत्रस्य पूर्णिमारात्रौ पुण्डरीको गणाधिपः । सम्प्राप केवलज्ञानं ततोऽन्ये साधवोऽश्रयन् ॥ २१ ॥ पुण्डरीके गते मुक्तौ कृत्वा मोक्षमहोत्सवम् । देवास्तस्यैव तीर्थस्य पुण्डरीकाभिधां ददुः ॥ २२ ॥ यतः- "चित्तस्स पुण्णिमाए समणाणं पंचकोडीपरिवरिओ । निम्मलजसपुण्डरीअं सो विमलगिरी जयउ तित्थं" ॥ भरतस्तत्र कल्याण-मयं स्फारं जिनालयम् । कारयामास कल्याण-कोटिकोटिशतव्ययात् ॥ २४ ॥ तत्र रत्नमयं बिम्बं श्रीयुगादिजिनेशितुः । स्थापयामास भरतः प्रतिष्ठोत्सवपूर्वकम् ॥ २५ ॥ द्वाविंशतिर्जिनावासान् द्वाविंशत्यर्हतां पुनः । भरतः कारयामास भूरिस्वर्णव्ययात् पुनः ॥ २६ ॥
उक्तं च पुण्डरीकप्रकीर्णके" चित्तस्स पुण्णिमाए मासक्खमणेण केवलं नाणं । उत्पन्नं सव्वेसिं पढम वर पुंडरीअस्स ॥१॥ केवलिमहिमं दट्टुं पुंडरीए सुरगणेहिं कीरंतं । उप्पन्ननाणरयणा केवलि जाया तओ सम्वे ॥ २ ॥ देवेहिं कया महिमा सिद्धिं पत्ताणं सब्यसाहूणं । पुंडरीयकेवलिस्स वि सरीरपूया कया विहिणा ॥ ३ ॥
152252SSESESSESP5SSES
For Private and Personal Use Only