SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥३७॥ ISESESEasSSSSSSSSESE पुत्रं बाहुबलि पुत्री सुन्दरी युग्मयोगतः ! आदिदेवप्रियाऽभूत, सुनन्दाऽन्या शुभेऽहनि ॥ ६ ॥ भरतस्यादिमः पुत्रः पुण्डरीकाभिधोऽभवत् । अन्ये तु नन्दनाः कोटि-प्रमाणा अभवन् क्रमात् ॥ ७ ॥ निवार्य युग्मधर्म तु व्यवहारपथं समम् । प्रकाश्य वृषभो राज्यं विदधे समयं बहुम् ॥ ८ ॥ इत्यादि शास्त्रान्तराद् ज्ञेयं स्वयम् ।। अयोध्याया ददौ राज्यं भरतायाऽऽदिमो जिनः । विभज्य राज्यमन्येभ्यः पुत्रेभ्यो निवृत्तः पुनः ॥६॥ लात्वा व्रतं प्रपद्याऽथ ज्ञानं श्रीवृषभः प्रभुः । प्रबोधितुं जनान् भव्यान् विजहाराऽवनीतले ॥१०॥ पुण्डरीको गृहीत्वादौ व्रतं श्रीवृषभान्तिके । गणभृत्सु पदं धुर्यं लभते स्माखिलेष्वपि ॥ ११ ॥ पुण्डरीको जनान् भव्यान् बहून् प्रबोधयन् वृषे । पूर्वाण्यनेकशो निन्ये जीवितव्यस्य सन्ततम् ॥१२॥ वृषभान्तेऽन्यदाऽप्राक्षीत् पुण्डरीको गणाधिप: । मम कुत्र शिवं भावि स्वामिन्नादिश्यतामिति ॥ १३ ॥ स्वाम्याचष्ट सुराष्ट्रासु तुङ्गोऽस्ति धरणीधरः । तत्र ते गमनं मोक्षे भविष्यति न संशयः ॥ १४ ॥ श्रुत्वा प्रभोर्वचः सम्यग् भूरिसाधुसमन्वितः । पुण्डरीकोऽचलद् गन्तुं तुङ्ग महीधरं प्रति ॥ १५ ॥ सुराष्ट्रासु स्थितं तुङ्ग पर्वतं भूविभूषणम् । दृष्ट्वा चक्रे नतिं भक्त्या पुण्डरीको गणाधिपः ॥ १६॥ तुङ्गपर्वतमारूढः पुण्डरीको गणाधिपः । ध्यानमौनपरो जातो भूरिवाचंयमान्वितः ॥ १७॥ 25ZSSPSSSCSSSSSSZS2. Id॥३७॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy