________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
R
एवंविधन सङ्घन दण्डवीर्यः समन्वितः । चलन् शत्रुञ्जये तीर्थे ययौ कुर्वन् महोत्सवम् ॥२८॥ स्नात्रा ध्वजदानादि-कृत्यानि समहोत्सवम् । दण्डवीर्योऽर्जयामास कर्म मुक्तिगमोचितम् ॥ २९ ॥ तस्मिन् सझे स्थिते तत्र सप्त कोटयो नराः स्त्रियः । लेभिरे केवलज्ञानं ययुर्मुक्ति क्रमात् पुनः ॥३०॥ सिद्धक्षेत्रे गतेष्वेषु नरादिषु तदा क्रमात् । सिद्धक्षेत्रमिति क्षमापो नाम तीर्थस्य दत्तवान् ॥३१॥ यात्रां कृत्वा समेतः स्व-नगरे मेदिनीपतिः । राज्यं दत्त्वा स्वपुत्राय जग्राह संयमश्रियम् ॥ ३२ ॥ क्रमात् सूरिपदं प्राप्य केवलज्ञानमप्यथ । ययौ शत्रुञ्जये मुक्ति दण्डवीर्यन रेश्वरः ॥ ३३ ॥
शत्रुजय
कल्पत
DOGSSSSSSSESS
॥३६ ॥
252525252SSISES2SESEISE:
amana
॥ श्री पुण्डरीकनामोपरि श्रीवृषभजिन-प्रथमगणधरपुण्डरीककथा ।। तृतीयस्याऽरकस्यान्तेऽवसर्पिण्यामिहाऽधुना । आसन् कुलकराः सप्त युगलित्वेन शोभिताः ॥१॥ तथाहि-पढमित्थ विमलवाहण चक्खुम जसमं चउत्थमभिचंदे । तत्तो अ पसेणइए मरुदेवे चेव नाभी य ॥२॥ चंदजस चंदकंता सुरूव पडिरूव चक्खुकता य । सिरिकता मरुदेवी कुलगरपत्तीण नामाई ॥३॥ नाभेः कुलकरस्यासीन्मरुदेवाभिधा प्रिया । तयोः ऋषभनामाभूत पुत्र आद्यो जिनाधिपः ॥ ४॥ सुमङ्गला प्रिया तस्य भरतं भारतीयुतम् । अमृत युग्मतश्चैकोनपञ्चाशत्सुतद्वयम् ॥ ५ ॥
॥३६॥
For Private and Personal Use Only