________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥५२४॥
ITSEST525252525252SSESC.
हायनानां त्रिशत्या तु जन्मघस्वाद् गते सति । नभोधवलषष्टयां तु पूर्वाणे त्वाष्ट्रगे विधौ ॥ ६२५॥ निवृत्ते तुमुले सामा-यिकस्योचरणक्षणे । प्रभोर्ज्ञानं समुत्पन्नं तुर्य वाचंयमोचितम् ॥ ६२६ ॥ युग्मम् ॥ तिहिं नाणेहिं समग्गा तित्थयरा जाव हुँति गिहिवासे । पडिवन्नम्मि चरित्ते चउनाणी जाव छउमत्थे ॥१॥ सहस्रं भूभुजां लोचं विधाय प्रभुवत्तदा । जग्राह संयम स्वामि-भक्त्या केचित् स्वभावतः ॥ ६२७ ॥ कृष्णेन्द्रादिषु यातेषु स्वस्वस्थाने नृपादिषु । वरदत्तद्विजावासे गोष्ठस्थेऽह्नि द्वितीयके ॥ ६२८ ॥ पारणं परमान्नेन यावत् प्रभुय॑धात्तमाम् । तावत्तत्र गृहे रत्न वृष्टिं चक्रुः सुधाभुजः ।। ६२९ ॥ युग्मम् ॥ यत- अद्ध य तेरस कोडी उकोसा तत्थ होइ वसुहारा । अद्ध य तेरस लक्खा जहन्निया होइ वसुहारा ॥१॥ विहारं कुर्वतोऽहस्सु चतुःपञ्चाशति व्रतात् । गतेषु केवलज्ञानं सहस्राम्रवनेऽजनि ॥ ६३० ॥ सद्यः सुरवरैरेत्य तत्र वप्रत्रये कृते । उपविष्टो जिनो नेमि-र्दातुं धर्मोपदेशनाम् ॥ ६३१॥ इत उद्यानपस्याऽऽस्याद् ज्ञानोत्पतिं प्रभोस्तदा । मत्वा हृष्टो ददौ दानं मुरारातियथोचितम् ।। ६३२॥ कृष्णः समुद्रविजय-शिवाभामादिसंयुतः । गत्वा तत्र प्रभोस्तिस्रः प्रदक्षिणा व्यधाद् द्रुतम् ॥ ६३३ ॥ बलिं कृत्वा प्रभुं नत्वा स्थाने यथोचिते हरौ । उपविष्टे परे स्वस्त्रो-चिते स्थाने न्यवीविशत् ॥ ६३४ ॥ "राया व रायमच्चो तस्सासइ पउर जणवओ वावि । दुबलिकडिय बलि छडीअ तंदुलाणाढगं कलमा ॥१॥
BSESSISCSISESESSESESEITS
॥५२४॥
For Private and Personal Use Only