________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SRSese
शत्रुजय कल्पवृ० ॥५२५॥
2575525252TSSTSE
भाइअपुणाणियाणं अखंडफुडियाण फलगसरियाणं । कीरइ बली सुरावि अ तत्थेव च्छुहंति गंधाइ ॥२॥ बलिपविसणसमकालं पुब्बदारेण ठाई परिकहणा । तिगुणं पुरओ पाडण तस्सद्धं अबडियं देवा ॥३॥ अद्धं अहिवइणों तदद्धमो होइ पागयजणस्स । सव्वामयप्पसमणी कुप्पइ नऽन्नो अ छम्मासे ॥ ४॥" इतः पुरे कुबेराहे कोटिनार्यभिधे पुरे । देवभट्टद्विजन्माभू-द्देवलाऽजनि गेहिनी ॥ ६३५ ॥ क्रमात तयोरभूत सोम-भट्टः पुत्रो मनोहरः । सोमभट्टस्य पत्न्यासी-दम्बिका जिनधर्मकृत् ॥ ६३६ ॥ क्रमाद्दिवं गते देव-भट्टे निकेतनप्रभुः । सोमभट्टो व्यधात् पित-कृत्यं सद्गतये तदा ॥ ६३७॥ तदैव श्राद्धदिवसें. मासक्षपणपारणे । भिक्षायै संयतं द्वन्द्वं सोमभट्टालये ययौ ।। ६३८ ॥ साधू तौ शमिनौ वीक्ष्य दध्यावित्यम्बिका हृदि । ममाऽद्य सदनं जातं पवित्रं संयतागमात् ॥ ६३९ ॥ श्वश्रुरेव गृहे नास्ति शुद्धमन्नं गृहे पुनः । प्रतिलाभ्य यतौ चेमौ कृतार्थाऽद्य भवाम्यहम् ॥ ६४०॥ ध्यात्वेति हर्षिताऽऽदाय शुद्धमन्नं करे निजे । अम्बिकाऽवग् यतीनां तु चान्नं प्रासुकमुत्तमम् ॥ ६४१ ॥ शुद्धमन्नं तदा ज्ञात्वा धत्तः पात्रं यती वरौ । तदाऽम्बिका मुदा साध्वो-स्तयोरन्नं ददौ द्रुतम् ॥ ६४२ ॥
हव्यकव्यमकृत्वा, तां ददानां दानमम्बिकाम् । दृष्ट्वा प्रातिगृहिण्येका तस्यामीळ व्यधात्तमाम् ॥ ६४३॥ a तस्याः श्वश्रूर्यदाऽऽयाता तदाऽवक् प्रातिगेहिनी । अकृत्वा हव्यकव्यादि भवत्याः सूनुगेहिनी ॥ ६४४ ॥
5252SSZSGS2S5255252525
For Private and Personal Use Only