SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥४९६॥ ESSSSS SEASESSSSS * यतः-" रिक्तपाणिनं पश्येच्च देवं नैमित्तिकं गुरुम् । उपाध्यायं च वैद्यं च फलेन फलमादिशेत् ॥२९७॥क । रुक्मिण्याऽऽचष्ट किं पेया रोचते बद साम्प्रतम् । स प्राह यदि लभ्येत पेया स्यादमृतं मम ॥ २९८ ॥ राध्यमाना तया पेया न सिसेध यदा तदा । ययाचे स मुनिः कृष्ण-मोदकान् रुक्मिणी वरान् ॥ २९९ ।। रुक्मिण्याऽऽह मुकुन्दस्य मोदका अन्यदेहिनाम् । भक्षिता नहि जीर्यन्ति तेनान्यन् मार्गया-धुना ॥३०॥ सोऽवक त्वं मोदकान् देहि किं ते जरणचिन्तया । तपोबलादलिष्ठान-मपि जीर्यति तत्क्षणात् ॥३०१॥ सशंका सा ददावेकं मोदकं मुनये तदा । सोऽपि भुक्त्वा क्षणात्तां च तं याचितवान् पुनः ॥३०२॥ प्रदत्तान् मोदकान् भूरीन भुञ्जानं तं मुनि तदा । वीक्ष्याऽवग् रुक्मिणी तेऽस्ति बलिष्ठं तपसो बलम् ।। ३०३ ॥ इतो मुण्डितशीषर्षी तां जल्पन्ती मुनिनोदितम् । भामा प्रत्यवदन् भृत्याः फलरिक्तमभूद्वनम् ॥ ३०४ ॥ बभूवु निर्जलानीतः सरांसि सकलान्यपि । पपात तुरगाद् भानु-हियन् वाहनं क्षितौ ॥ ३०५ ॥ भान्वागतकन्यास्तु स्वर्गनारीसहोदरीः । अकस्माजहिरे केन-चिन्नरेणापि साम्प्रतम् ॥३०६॥ भामया प्रेषिता दासी केशानयन हेतवे । रुक्मिणीसदने गत्वा ममार्ग शीर्पवालकान् ॥३०७ ॥ दासी सन्मानिता यावद् रुक्मिण्या रुचिरोक्तितः । तावत्तत्र स्थितो माया-मुनिरेवं जगाद स ॥३०८ ॥ प्रच्छन्नं प्रेषिता सत्य-भामया तद्वरं कृतम् । रुक्मिण्याश्च शिरोजातान् सत्या ते स्वामिनी किल ॥ ३०९ ।। 2725225257SSIETTESE mmmmmmm ४९६॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy