SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुजय कल्पवृ० ॥४९०॥ 2S2525252525252525TSSES रामकृष्णावनावृष्णि समुद्रविजयादयः । विधाय नेमिनं हस्त्या-रूढमानिन्युरालये ॥ २२३ ।। * तदा शक्रयुताः सर्वे यादवा मुदिताशयाः । शत्रुञ्जयमहातीर्थे यात्रां चक्रुः सविस्तरात् ।। २२४ ॥ नेमि प्रणम्य गीर्वाणे-भूरिभिः सह वासवः । आददानो गुणान्नेमि जिनस्य स्वर्गमीयिवान् ॥ २२५॥ .. ततः कृष्णो बलेनाऽमा राज्यं कुर्वन् लसन्नयात् । पपालोवी तथा वाढं सुखिन्यासौद्यथा दृढम् ।। २२६॥ अन्यदा नारदोऽभ्येत्य कृष्णस्य पुरतो जगौ । रुक्मिक्षोणिपतेर्वा समस्ति रुक्मिणी स्वसा ॥ २२७ ॥ | ततः कृष्णनृपः प्रेष्य रुक्मिभूमिपति स्फुटम् । याचते रुक्मिणी पाणि-ग्रहहेतोः शुभेऽहनि ॥ २२८ ॥ यदा न ददते रुक्मी स्वपुत्री हरये स्वयम् । तदा दध्यौ हरिह्या रुक्मिणी हठतो मया ॥ २२९ ।। तत्रैत्य रुक्मिणं भूप-मददानं स्वसोदरीम् । मत्वा हृत्वा च तां कृष्णोऽचालीत् स्वीयपुरी प्रति ॥ २३०॥ समायातं तदा पृष्ठौ रुक्मिणं कमलापतिः । निर्जित्य स्वपुरोपान्ते समियाय वराशयः ॥ २३ ॥ परिणीय रमानाथो रुक्मिणी लसदुत्सवम् । आनीय नगरीमध्ये तस्यै वर्य गृहं ददौ ॥ २३२ ।। जवाज्जम्बुवतो विद्या-भृतो जम्बुवती सुताम् । स्नातां सुरनदीतीरे जहार पुरुषोत्तमः ॥२३३ ॥ आनीय स्वपुरोपान्ते गन्धर्वोद्वाहतो द्रुतम् । परिणीयानयद्विष्णुः पुर्या जम्बुवतीं प्रियाम् ।। २३४ ॥ लक्ष्मणा च सुसीमा च गौरी पद्मावती ततः । गन्धारी चेति कृष्णस्याभूवन् यदष्ट वल्लभाः ॥२३५ ॥ ISZPS22525252525252525 ॥४९० man For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy