________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पत
॥४८९॥
SSSSSESSESASRSESESE
एकदा दिवि शक्रेण सुराणामग्रतो मुदा । वणितं नेमिनाथस्य सत्त्वशौर्यादि सुन्दरम् ॥ २१० ॥ सत्त्वे शौर्ये कूले शैले दानरूपगुणेष्वपि । प्रभुर्नेमिन केनाऽपि चाल्यते त्रिदशैरपि ॥ २११॥ आकण्यैतत् सुराः केचित् दधतोऽमर्षमात्मनि । प्रभु चालयितुं द्वार-वत्युपान्ते समाययुः ॥ २१२॥ मर्त्यरूपधराः कृत्वा पुरं स्फारं तदन्तिके । स्थिता जहर्गवादीनि नरान् नारीश्च भूरिशः ॥ २१३ ॥ तान् जेतुं ये ययू राजसेवकास्ते तदा द्रुतम् । हताः पश्चात् समायाताः प्रोचुंश्च तद्विचेष्टितम् ॥ २१४ ॥ अनावृष्टिदिपो जेतुं गतस्तैः समराङ्गणे । बद्ध्वा निजपुरीमध्ये क्षिप्तश्च भृत्यसंयुतः ॥ २१५॥ ततः समुद्रविजयं यान्तं जेतुं रिप॑श्च तान् । निषिध्य रामकृष्णौ तु गतौ हन्तुं द्विषस्तदा ॥ २१६॥ कुर्वाणौ समरं राम-कृष्णौ तैरिभिः समम् । बद्ध्वा क्षिप्तौ दृढं कारा-गृहे स्वभृत्यसंयुतौ ॥ २१७॥ ततो नेमिकुमारस्तु गत्वा तत्र रणाङ्गणे । सकृपोऽपि च तैः सार्द्ध युद्धं चक्रेऽतिदारुणम् ॥ २१८ ।।
युद्धं कुर्वन् प्रभुः शत्रन् सर्वान् निश्चेष्टकाष्ठवत् । चकार न यथोच्छ्वासं कत्तु शेकुर्मनागपि ॥२१९ ॥ - ततस्ते निर्जराः सर्वे स्वं रूपं विभ्रतस्तदा । नत्वा प्रभुं जगुः स्वीया-गमहेतुमशेषतः ।। २२० । H तदा तैनिजरैश्चारु-हारं कुण्डलयामलम् । दतं यदा तदा शकस्तत्रत्य प्रभुमानमत् ॥ २२१ ॥ 5 जगौ शक्रः प्रभुद्देष केनापि चाल्यते नहि । अनन्तौजालसत्सत्त्व-गाम्भीर्यशौर्यवानसौ ॥ २२२ ॥
SSSSSSSSSSSELSESSES
maamana
॥४८९॥
For Private and Personal Use Only