________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥ ४९१॥
ASTSTSTSSESG2SPSSESE
www.kobatirth.org अन्यदा रुक्मिणी स्वप्ने बलक्षवृषभस्थिते । विमाने स्वां निषण्णां तु दृष्ट्वा पत्युः पुरोऽवदत् ॥ २३६॥ कृष्णोऽवक् ते प्रिये ! पुत्रो भविष्यति मनोहरः । श्रुत्वेति सत्यभामायै कापि दासी न्यवेदयत् ॥ २३७ ॥ ईय॑या सत्यभामाऽपि गत्वा कृष्णान्तिकेऽवदत् । स्वप्नेऽदर्शि मया हस्ति-मल्लोऽथ गिरिसोदरः ॥ २३८॥ कृष्ण आचष्ट ते सू नु-रनूनवैभवक्रमः । भविष्यति लसद्रप-पराभूतमनोभवः ॥ २३९॥ गर्वस्त्वया न कर्त्तव्यः कार्यों धर्मों जिनोदितः । श्रुत्वैतत् कापि दास्येत्य रुक्मिप्याः पुरतो जगौ ॥ २४०॥ सत्यभामोदितं कूटं ज्ञात्वाऽवग् रुक्मिणी तदा । कूटं कि जल्प्यते सत्यभामे ! सत्कुलया त्वया ।। २४१॥ भामाऽऽचष्ट ममोक्त च कूट भवति देवतः । ततः सूनोविवाहस्य समये समुपागते ।। २४२ ॥ रुक्मिक्षोणिभुगपुत्रि! भवत्यै त्वरितं किल ! भद्रीकृत्य शिरो देया वालास्तुभ्यं मया तदा ॥ २४३ ॥ रुक्मिण्यवग् मयोक्त चेत् कूट भवति दैवतः । भद्रीकृत्य शिरो देया वालास्तुभ्यं मया तदा ॥ २४४॥ विधाय साक्षिणं ते द्वे गते स्वस्वगृहे क्रमात् । तदैव दधतु गर्भ पृथक पृथक् शुभेऽहनि ।। २४५ ॥ सुप्रद्योतं सुतं चारु-दिने प्रद्युम्ननामकम् । रुक्मिणी सुषुवे सत्य-भामाथ भानुसंज्ञकम् ॥ २४६ ॥ पूर्ववैरात् सुरो धूमकेतुश्छन्नं दिनात्यये । रुक्मिणीपुत्रमादायामुचद् वैताढयपर्वते ॥ २४७ ।। युग्मम् ॥ गते तस्मिन् सुरे काल-संवराभिधखेचरः । लात्वा कनकमालाये पत्न्यै दत्त्वा जगावदः ॥ २४८ ।।
125SISESESSSPSS25:SZSE
॥४९१॥
For Private and Personal Use Only