________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
SESTSESEISESTIESE
॥४८५॥
एतौ कंसस्य हन्तारौ रामकृष्णौ तवाङ्गजौ । अतो वध्याविमौ नूनं शूलादिक्षेपणैः स्फुटम् ॥१६०॥ स्वकीयकुलरक्षायै बलकृष्णौ बलोत्कटौ । जरासन्धान्तिके प्रेष्य कुरु राज्यं चिरं नृप ! ॥ १६१ ॥ आद्यो दशाई आचष्ट भोः सोमक ! पतिस्तव । अर्थयन् रामकृष्णौ तु बालको लज्जते न हि ॥१६२ ॥ क्रीडयाऽऽभ्यां हतः कंसः कुर्वन् मल्लरणक्रियाम् । तयोरूर्व कथं कोपः क्रियते स्वामिना तव ॥ १६३ ॥ समुद्रविजयप्रोक्तं पश्चादागत्य सोमकः । यावज्जगी जरासन्ध-स्तावत् क्रुद्धोऽभवद् भृशम् ।। १६४ ॥ इतः स्वनन्दिनी सत्य-भामा पूर्वानुरागिणीम् । उग्रसेनो ददौ प्रीत्या कृष्णाय लसदुत्सवम् ॥ १६५ ॥ मेलयित्वा निजान् सर्वान् यादवान् यादवेश्वरः । स्वभद्रहेतवेऽप्राक्षीत् क्रोष्टिकं कुशलं तदा ॥१६६ ॥ क्रोष्टिकोऽवग् भवत्पुत्री रामकृष्णौ महाभुजौ । त्रिखण्डभरताधीशौ भविष्यतः क्रमादिमौ ॥१६७ ॥ एष नेमिकुमारस्तु भविष्यति सुभाग्यवान् । तेनेदं स्थानकं त्याज्यं भवद्भिहितमिच्छुभिः ॥१६८ ॥ अधुना तु जरासन्धाद् भवतामिह तिष्ठताम् । मया विलोक्यते विघ्नं युक्तं तेनात्र न स्थितिः ॥१६९ ॥ समुद्रोऽवग् गमिष्यामो वयं कस्यां दिशि द्रुतम् । जगाद क्रोष्टिको यातं यूयं च वारुणीदिशि ॥ १७ ॥ सत्यभामा सुतद्वन्द्वं यत्र सूते स्म वासरे । तत्र निवेश्य नगरं स्थातव्यं सुखहेतवे ॥ १७१॥ युष्माकं तिष्ठतां तत्र भविष्यति रिपुक्षयः । वदिष्यति कुटुम्बादि सर्व राज्यं च सर्वतः ॥ १७२ ।।
SSZESTSSOSSES52522SESSE
॥४८५॥
For Private and Personal Use Only