________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ०
॥ ४८४ ॥
125250
2525252522520
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ साहसमालम्ब्य भुजास्फोटं दृढं तदा । कुर्वाणः कंस आचष्ट बल- कृष्णौ प्रति स्फुटम् ॥ १४७ ॥ रे रे गोपी गवां दुग्धं पीत्वा पीनतनू स्फुटम् । युवां स्वमरणं नैव पश्यतं मम पार्श्वतः ॥ १४८ ॥ कृष्णः प्रोवाच भो कंस ! स्वोत्कर्ष यत् प्रजल्पसि । लभिष्यसि फलं तस्य गमनाद्यमसद्मनः ॥ १४९ ।। ततः कंसः समुत्थाय हन्तुं कृष्णमधावत । तदा कृष्णोऽपि तं हन्तुमुत्थितः स्फारयद्भुजम् ॥ १५० ॥ मल्लक्रीडां मिथः कृष्ण-कंसयोः कुर्वतोस्तदा । देवा अपि समायाता द्रष्टुं व्योम्निक्षितौ नृपाः ॥ १५१ ॥ तथा चण्डवल :- कृष्णः कंसं जघान मर्मणि । यथा मुक्तौ मुनिः कंसो यमस्य समीयिवान् ॥ १५२ ॥ कंसे मृतेऽथ कारोको - मध्यान्निः काश्य तत्क्षणात् । उग्रसेननृपं राज्ये समुद्रविजयो व्यधात् ॥ १५३ ।। रामकृष्णाङ्गजौ लात्वा समुद्रविजयादयः आययुः स्वपुरे सूर्य-पुरे सूत्सवपूर्वकम् ॥ १५४ ॥
तो जीवयशा रोदं रोदं पत्यौ मृते चिरम् । जरासन्धनृपोपान्ते गता प्राहेति गद्गदम् ॥ १५५ ॥ वसुदेवसुताभ्यां ते जामाता दुर्दमोऽपि हि । गमितो यमगेहे तु मल्लयुद्धविधानतः ॥ १५६ ॥ ज्ञात्वा कंसवधोदन्तं जरासन्धो जगौ सुताम् । वत्स ! मा त्वं रुद्रस्तेऽरीन् रोदयिष्याम्यहं द्रुतम् ॥ १५७ ॥ जरासन्धस्ततो भूपं सोमाह स्वाङ्गरक्षकम् । प्रजिघायानुशिष्येति समुद्रविजयान्तिके ॥ १५८ ॥ समुद्र सोमको नत्वाssवष्टेति भूपतेः पुरः । रामकृष्णौ कुलाङ्गारौ जरासन्धोऽथ याचते ।। १५९ ॥
For Private and Personal Use Only
25252525255252525252525
||| ४८४ ॥