________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ० ॥४८३॥
LISTES25ZSSR5252SPESZSE
रथस्खलनहेतुं दूं रथादुतीय माधवः । द्रुतमुन्मूलयामास तदा कमलनालवत् ॥ १३४॥ उपविश्य रथे कृष्णं प्रीत्यानावृष्टिरञ्जसा । सभायां शाङ्गकोदण्ड-रोचिष्टौ समुपाययौ ॥१३५॥ गृह्णन् चापमनावृष्टि-रस्खलच्च यदा तदा । जनोऽहासीत् समः सत्य-भामा लज्जामुपाययौ ॥१३६ ॥ तदा स कुपितः कृष्णोऽधिज्यं शाङ्ग विधाय द्राग् । कृत्वा करे टणत्कारं चक्रे तथा स लीलया ॥ १३७॥ यथा कटाक्षकुसुमैः सत्य-भामाऽतिहर्षिता | अपूजयद् भुजायुग्मं कृष्णस्य देववत्तदा ॥ १३८ ॥ कंसाहूतास्तदाऽनेके भूपा एयुः स्वदेशतः । मण्डिते मल्लयुद्धे तु मल्लयुद्धदिदृक्षया ॥ १३९ ॥ कृष्णोऽपि कौतुकी सार्धं श्रीरामेण वजन् पथि । कालियाहिं जघानाशु यमुनायां हृदे खलु ॥ १४०॥ कृष्णोऽवधीद् गजं पद्मो-त्तरं रामश्च चम्पकम् । ज्ञातमेतच्च कंसेन ज्ञातौ शत्रू ततः स्वकौ ॥१४१ ॥ युग्मम् ॥ मल्लयुद्धाङ्गणे मल्लौ चाणूर-मुष्टिकाभिधौ । भुजास्फोटं वितन्वाना-वागतौ कुञ्जराविव ॥ १४२ ॥ राम-कृष्णौ कुमारौ तु कुर्वाणौ केलिमादरात । तत्रायातौ वितन्वानौ कौतुकं भूभुजामपि ॥१४३ ॥ चिरं तत्र वितन्वानौ मल्लयुद्धं बलाऽच्युतौ । समुद्रविजयक्ष्माप-मुख्य भूपे समागते ॥१४४॥
मल्लाविव भुजास्फोट-परौ सिंहरवायुतौ । विराजेतांतरां तौ तु यमविग्रहसोदरौ ॥१४५ ॥ | चाणूरं हतवान् कृष्णः सौमित्रो मुष्टिकं यदा । मृत्युभीतस्तदा कंसश्चकम्पे हृदये दृढम् ॥१४६ ॥
22SSS7525525525525525
H४८३॥
For Private and Personal Use Only