________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥४७६॥
SESESTSESTSESTST25252STI
तस्यास्तदाऽभवद् भर्तृ-पलभक्षणदोहदः । तेन ज्ञातं तया पुत्रो भावी पत्युर्मृतिप्रदः ॥ ४६॥ जातमात्रं सुतं क्षिप्त्वा कांस्यपेटां नरै रहः । यमुनायाः प्रवाहेऽम्बा मोचयामास वेगतः ॥ ४७ ॥ यान्ती पेटा गता सूर्य-पुरे यावत् प्रवाहतः । तावदासादिता तत्र वणिजा केनचित्तदा ।। ४८॥ तामुद्घाटय शिशुं तत्र स्थितं प्राप्य वणिग्वरः । कांस्यपेटान्तराप्तत्वात् कंस इत्यभिधां ददौ ॥ ४९ ।। वर्द्धमानः क्रमात् कंसो-ऽकुट्टयत् परचालकान् । ततो दिने दिने तस्य रावो याति वणिग्गृहे ॥ ५० ॥ विज्ञाय स्वकुशलायोग्यं समुद्रविजयाय तम् । दत्त्वा वणिक् ततस्तत्र कंसो वृद्धिसमीयिवान् ॥ ५१ ॥ क्रमात् कंसोऽभवद् गाढं वसुदेवस्य बल्लभः । वसुदेवो ददाति स्म सन्मानं स्वन्नदानतः ॥५२ ।। इतो राजगृहे न्यायी जरासन्धो महीपतिः । अभूत् त्रिखण्डभूभर्ती प्रतिविष्णुबली क्रमात् ॥५३॥ जरासन्धोऽन्यदा कंस-युतं यदुवरं वसुम् । जेतुं सिंहरथं सद्यो-ऽचालयत् सुबलं रिपुम् ॥५४ ॥ युद्धे सिंहरथो वैरी हतः कंसेन भूभुजा । ततस्तत्र जरासन्ध-भूपस्याऽऽज्ञा प्रवर्तिता ॥ ५५ ॥ वसुदेवः समायातः पश्चात् कंसाय भूभुजे । अदापयज् जरासन्ध-पार्थाज्जीवयशोऽङ्गजाम् ॥ ५६ ॥ पश्चाद्भवोद्भवाद् वैराद् जरासन्धसमीपतः । विवाहानन्तरं कंसो मथुराराज्यमाप्तवान् ॥ ५७ ॥ उग्रसेनं नृपं तातं स्वं मत्वा कस्यचिदाननात् । कंसश्चिक्षेप कारायां पूर्ववैरनियोगतः ॥५८ ॥
SZESZSSZS2525252
४७६॥
ISES
maa
For Private and Personal Use Only