SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir wammmmmmmmmmmmm शत्रुऽजय कल्पवृ० ॥४७५॥ 252SSISZPSPS2SPS2S2S257 समुद्रविजयोऽक्षोभ्यः स्तिमितः सागरोऽपि च । हिमवानचलश्चैव धरणः पूरणस्तथा ॥३३॥ अभिचन्द्रो वसुदेवो दशाहोख्यो दशापि ते । अन्धकवृष्णिभूपस्य दशैते नन्दनाः स्मृताः ॥३४ ॥ युग्मम् ॥ वर्यशीला महीपाला अमी सर्वे नृपाङ्गजाः । प्रीतियुक्ता लसच्छास्त्राः पितुर्भक्तिं व्यधुस्तराम् ॥३५॥ दशाहीनां दशानां वे कुन्ती माद्रयभिधे वरे । सहोदयौं मिथः प्रीति-परे जाते शुभाशये ॥३६॥ समुद्रविजयं ज्येष्ठ पुत्र-मन्धकवृष्णिराट् । स्वराज्ये न्यस्य चारित्रं लात्वा प्राप शिवश्रियम् ॥३७॥ समुद्रविजये भूपे न्यायात् पालयति क्षितिम् । सुखिनो(नी) जनता जाता रामभूमीपतेरिव ॥ ३८ ॥ स्वयं जिनेश्वराज्ञां तु शीर्षे यो वहते सदा । दत्ते दानं सुपात्रेभ्यो जिनं पूजयति ध्रुवम् ॥ ३९ ॥ स एव विद्विषोऽशेषान् समुद्र विजयो नृपः । आज्ञां स्वां ग्राहयामास लीलया समराङ्गणे ॥४०॥ तस्यासीद् गेहीनी शील-गुणमाणिक्यरोहणः । शिवाभिधा मुकुन्दस्य श्रीरिवेशस्य पार्वती ॥४१ ।। सुवत्सला परीवारे भक्ता देवगुरावपि । सुकृपा सूक्ष्मजीवेऽपि निःकृपा पापहिंसने ॥ ४२ ॥ परस्परं सदा प्रीति-परौ धर्मपरायणौ । शिवा-समुद्रविजयौ समयं निन्यतुः सुखम् ॥४३॥ मथुरायामितो भोज-वृष्णौ प्रव्रजिते सति । उग्रसेनोऽभवद्राजा प्रिया तस्य च धारिणी ॥४४॥ प्राग्भवोद्भववरेण कश्चित् तापसपुङ्गवः । मृत्वाऽभूद्धारिणीकुक्षौ वासरे ह्यशुभेऽन्यदा ॥४५॥ ISZLSDSSOSSESSISEIPSISSES m mmmmm ॥४७५॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy