________________
Shri Mahavir Jain Aradhana Kendra
शत्रुजय कल्पवृ०
॥ ४६७ ॥
www.kobatirth.org
प्रपूज्य वृषभं देवं जिनानन्यानपि क्रमात् । स्वामिनः पादुकां पूजयामास भूपतिर्मुदा ॥ ३० ॥ ततः प्रदक्षिणां दत्त्वा राजादन्या महीपतिः । संघयुग् वर्धयामास मुद्रा मुक्ताफलैः क्रमात् ॥ ३१ ॥ ततो नरपतिर्गत्वा नारदस्यान्तिके मुदा । नत्वा सिद्धाद्रिमाहात्म्य-मश्रोषीदिति सादरम् ॥ ३२ ॥ * तावद् गर्जन्ति हत्यादि - पातकानीह सर्वतः । यावच्छत्रुञ्जयेत्याख्या श्रूयते न गुरोर्मुखात् ॥ ३३ ॥ 5 * न भेतव्यं न भेतव्यं पातकेभ्यः शरीरिभिः । श्रूयतामेकवेलं श्री सिद्धक्षेत्रगिरिकथा ॥ ३४ ॥ * वरमेकदिनं सिद्धि-क्षेत्रसर्वज्ञसेवनम् । न पुनस्तीर्थलक्षेषु भ्रमणं क्लेशभाजनम् ॥ ३५ ॥
* पदे पदे विलीयन्ते भवकोटिभवान्यपि । पापानि पुण्डरीकाद्रे-र्यात्रां प्रति यियासताम् ॥ ३६ ॥ इति सिद्धाद्रिमाहात्म्यं शृण्वन्तो बहवो जनाः । प्रपन्नाः संयमं सम्यक् तदा नारदसन्निधौ ॥ ३७ ॥ नारदो दशभिर्लक्षैः सार्द्धं वाचंयमैर्वरैः । शत्रुञ्जये ययौ मुक्ति-नगर्यां मासि माधवे ॥ ३८ ॥ एवमष्टौ क्रमाद् भूरि-लक्षसाधुसमन्विताः । शत्रुञ्जये ययुर्मुक्ति नगर्या पातकयात् ।। ३९ ।। एतेषां चरित्राणि शास्त्रेभ्यो ज्ञेयानि -
Acharya Shri Kailassagarsuri Gyanmandir
यतः -- “ लक्षैरेकनवत्या तु मुनिभिः सह नारदाः । नवापि निर्वृतिं भेजु स्तीर्थे शत्रुञ्जये क्रमात् ॥ १ ॥ " उक्तंच - " एतस्यामवसर्पिण्या मित्येवं नारदाः क्रमात् । लक्षैकनवत्या प्रापुः सिद्धिं शत्रुञ्जयाचले ॥ १ ॥ "
For Private and Personal Use Only
15245255725525525257526525
॥ ४६७ ॥