________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ०
॥ ४६६ ॥
2525252
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुनः कृष्णेन शौचार्थे पृष्टे स्वं नारदस्ततः । विदेहेष्वपरेऽप्राक्षी - न्नत्वा युगन्धरं जिनम् ॥ १७॥ किं शौचं प्रोच्यते स्वामी जगौ तपो निगद्यते । एवं बाहुर्जगाविन्द्रनिग्रहं नारदाग्रतः ॥ १८ ॥ दयां सुबाहुराचष्ट श्रुत्वेतन्नारदोऽखिलम् । ( द्वारवत्यां समागत्य ) जगौ मुरद्विषः पुरः ॥ १९ ॥ पुनः कृष्णेन शौचार्थे पृष्टे दध्यौ च नारदः । ऊहापोहपरो जाति - स्मृतिमान् प्रोक्तवानिति ॥ २० ॥ सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं जलशौचं च पश्चमम् ॥ २१ ॥ भूत्वा प्रत्येकबुद्धः स शौचाध्ययनमद्भुतम् । नारदः प्रोक्तवान् कृष्ण- भूपबोधाय तत्क्षणम् ॥ २२ ॥ * नक्तं दिनं निमज्जन्तः कैवर्त्ताः किन्तु पाप्मनाः । शतशोऽपि तथा स्नाता न शुद्धा भावदूषिताः || २३ || 5 * चित्तं शमादिभिः शुद्धं वचनं सत्यभाषणैः । ब्रह्मचर्यादिभिः काय: शुद्धो योगी (जलं) विनाऽप्यहो ! ||२४|| * मृदो भारसहस्रेण जलकुम्भशतेन च । न शुध्यन्ति दुराचाराः स्नातास्तीर्थशतैरपि ॥ २५ ॥
* आग्नेयं वारुणं ब्राह्म्यं वायव्यं दिव्यमेव च । पार्थिवं मानसं चैव स्नानं सप्तविधं स्मृतम् ॥ २६ ॥ * सप्त स्नानानि प्रोक्तानि स्वयमेव स्वयम्भुवा । द्रव्यभावविशुद्धयर्थं ऋषीणां ब्रह्मचारिणाम् ॥ २७ ॥ इत्यादि नारदो विहरन् सोऽपि भुवि प्रबोधयन् जनान् । शत्रुञ्जये ययौ भूरि-साधुसन्ततिसेवितः ॥ २८ ॥ इतस्तदा रमापुर्यां भूपो मदनमण्डनः । सप्तकोटिमितश्राद्ध युतस्तत्र समागमत्ः ॥ २९ ॥
For Private and Personal Use Only
a5a5a5a5
॥ ४६६ ॥