________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobatirth.org
शत्रुञ्जय कल्पवृ०
॥४५०॥
SCSESZTESESESC ESTESIC
ततः श्रीसङ्घमाकार्य भूत्वा सङ्घपतिः स्वयम् । रामोऽचालीज जिनान् नन्तुं तीर्थेऽष्टापदनामनि ॥ १५१२॥ आरुखाऽष्टापदं शैलं प्रत्येकं जिननायकम् । वृषभादीन् मुदाऽऽनर्च नानोत्सवपुरस्सरम् ॥१५१३ ।। यतः-"चत्तारि अट्ठ दस दोय वंदिया जिणवरा य चउव्वीसं ।
परमट्ठनिद्विअट्ठा सिद्धा सिद्धिं मम दिसंतु ॥१५१४ ॥ ततः सम्मेतशिखरे तीर्थे गत्वा जिनेश्वरान् । पूजयित्वा सुमै रामः स्वं जनुः सफलं व्यधात् ।। १५१५॥ अट्ठावयम्मि उसभो सिद्धिगओ वासुपुज्ज चंपाए । पावाए बद्धमाणो अरिट्ठनेमि अ उज्जंते ॥१॥ अबसेसा तित्थयरा जाइजरामरणबंधणविमुक्का । सम्मेयसेलसिहरे वीसं परिनिव्वुए वंदे ॥२॥ ततो रामो वितन्वान उत्सवं स्वपुरे क्रमात् । पृथिवीं न्यायमार्गेण पालयामास सन्ततम् ॥१५१६ ॥ अन्यदोत्पन्नवैराग्यो लोचं कृत्वा स्वपाणिना । सीता त्यक्तगृहारम्भा जिघृक्षुरभवद् व्रतम् ॥ १५१७॥ तादृशीं जानकी दृष्ट्वा रामो मूच्र्छामुपागतः । पतितो धरणौ स्वस्थी-कृतश्चन्दनसेवनैः ॥१५१८॥ ऊचे रामो मया पत्नि ! कोऽपराधः कृतस्तव । कथं मामेककं मुक्त्वा व्रतं लास्यति साम्प्रतम् ? ॥१५१९ ॥ त्वां विना मेऽधुना प्राणाः करिष्यन्ति प्रयाणकम् । सीताऽवग् न पते ! शोकः क्रियते पुरुषोत्तमैः ॥१५२० ।। एक एवासुमान याति परलोकं स्वकर्मणा । एक एव समायाति प्राग् जन्माऽर्जितकर्मणा ।। १५२१ ॥
WISATISSGSESTI SELESS
SAI४५०॥
www
For Private and Personal Use Only