________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ० ॥ ४५१ ॥
52525225
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
66
* 'भवारण्यं भीमं तनुग्रहमिदं छिद्रबहुलं बली कालचौरो नियतमसिता मोहरजनी 15
गृहीत्वा ज्ञानस्य विरतिफलकं शीलकवचं समाधानं कृत्वा स्थिरतरदृशो जाग्रत जनाः ! ॥ १५२२ ॥ एवं पर्यवसाय्यैव रामं जनकनन्दिनी । सर्वगुप्तगुरूपान्ते ललौ दीक्षां शिवप्रदाम् ।। १५२३ ॥ तदा रामेण विदधे तथा दीक्षोत्सवो महान् । यथा प्रापुर्जना बोधि-बीजं निर्वृतिदायकम् ।। १५२४ ॥ सूरिणोक्तं त्वया सीते! पालनीय तथा व्रतम् । यथा करतलेभ्येति शिवश्रीस्तव लीलया ॥ १५२५ ।। सुव्रतायतिनी पार्श्वे सर्वगुप्तेन सूरिणा । मुक्ता सीता तदा शुद्ध क्रियाशिक्षणहेतवे ॥ १५२६ ।। श्रीसर्वगुप्तसूरीश-पार्श्वे श्रीरामलक्ष्मणौ । लवाङ्कुशौ तथाऽन्येऽपि धर्मं श्रोतुमुपागमन् ॥ १५२७ ॥ सीतादियतिनीयुक्ता सुत्रता च प्रवर्तिनी । धम्र्म्मोपदेशनां श्रोतुं श्राद्धीयुक्ता समागमत् ।। १५२८ ॥ सूरीशः सर्वगुप्तोऽथ मेघगर्जितया गिरा । देशनां कर्त्तुमारेभे भव्याङ्गिबोधहेतवे ।। १५२९ ॥ यतः - " जत्थ अहिंसा सच्चं अदत्तपरिवज्जणं च बंभं च । दुविहपरिग्गहविरई तं हवई सिवाय चारितं ॥ १ ॥ विणओ दया दाणं सीलं गाणं दमो तहा झाणं । कीरड़ जं मोक्खट्टा तं हवs सिवाय चारितं ॥ २ ॥
जइ धम्मक्खर संभल नयणे निद्द न माइ । वत्त करंताए मर कूलरेडा व किं स्यणि विहाड़ (१) ॥ ३ ॥ धम्मसरिसा जे गया ते गुणसायरा दीह । अवरह पापारंभी सिउं भा सम देजे लीह ॥ ४ ॥
For Private and Personal Use Only
5525420
॥ ४५१ ।।