________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
e n
SESESZ2
wom
शत्रुञ्जय कल्पवृ०
-
॥४४८॥
STTATTISTI
शत्रुञ्जयादितीर्थेषु ये यात्रां कुर्वते जनाः । तेषां स्वर्गापवर्गादि-मुखं हस्ततले भवेत् ॥ १४८८ ॥ अनादिकालसम्भूतं तीर्थ शबपाचलः । यत्रानन्ताः शिवं प्राप्ता मुनयः क्षिप्तपातकाः ॥ १४८९ ॥ ये शत्रञ्जयतीर्थेषु तिष्ठन्ति पक्षिणोऽपीह । तेऽपि स्तोकैर्भवैरेव गमिष्यन्ति शिवालयम् ॥ १४९० ॥ गतेषु तीर्थनाथेषु गते ज्ञाने च केवले । लोकान् भवाम्बुधेः शत्र-जयाद्रिस्तारयिष्यति ॥ १४९१ ॥ जिनेष्वहन् यथा मुख्यः शैलेषु मन्दरो यथा । तथाऽयं सिद्धिभूमिथ्रो मुत्यो निगद्यते जनैः ॥१४९२॥ यः श्रीसङ्घपतीभूय भूरीन् भव्यान् शिवाचले । बन्दयन्ति शिवं नेतुं लभन्ते नात्र संशयः ॥ १४९३ ॥ एवं श्रुत्वा वचो रामो जगौ शत्रुञ्जयाचले । यात्रां कत्तु ममाऽस्तीच्छा साम्प्रतं मुनिसत्तम ! ॥१४९४ ॥ ज्ञानी प्राह तु भव्यानां तीर्थे शत्रुञ्जयाभिधे । वाञ्छा यात्रां विधातुं हि भव्यानां भवति ध्रुवम् ॥१४९५॥ येषां शत्रुञ्जये यात्रां कत्तु वाञ्छा प्रजायते । सिद्धिं याति च धन्यः स शिवगामी भविष्यति ॥१४९६ ॥ ततो दाथरथिः प्रेष्य बह्वीः कुङ्कुमपत्रिकाः । सङ्घमाकारयामास यात्रां कर्तुं शिवाचले ॥१४९७ ॥ कल्याणखचिताः पञ्च शतानि जिनपालयाः । कलधौतमयाः सप्त शतानि द्वादशाधिकाः ॥१४९८ ।। वर्यकाष्ठमयाः पञ्च सहस्रा द्वादशाधिकाः । चेलुः पुर्यास्तदा दाशरथे सधे मनोहरे ॥ १४९९ ।। युग्मम् ॥ अनसां कोटयः सप्त भूरिकोटय नरास्त्रियः । महिषाः पृष्टिवाहाश्च कोटय एकोनविंशतिः ॥ १५०० ॥
ISTSS2SSES25PSSISSESTS
॥४४८१
mummmmmmman
For Private and Personal Use Only