________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पव०
AGTIGSTSS29257SESTSTICITST
४४७॥
विजयावलिका मृत्वा संजाता राक्षसी तदा । रतिवर्द्धनराजर्षे-रुपसर्ग व्यवाद् भृशम् ॥१४८० ॥ उपसर्ग वितन्वत्यां राक्षस्यां रतिवर्द्धनः । अवाप्य केवलज्ञानं मोक्षसौख्यमसाधयत् ॥१४८१ ।। इतः सम्प्राप्तवैराग्यौ प्रियङ्करहितङ्गरौ । दत्त्वा स्वसूनवे राज्यं जगृहतुव्रतं तदा ॥१४८२ ॥ षष्ठाष्टमादिकं तीनं तपो नित्यं समाहितौ । कुर्वाणौ सुखिनौ जातौ प्रियङ्करहितङ्करौ ॥१४८३ ॥ समाधिमरणं प्राप्य प्रियङ्करहितङ्करौ । ग्रेयेयके गतौ धर्म-ध्यानैकलीनमानसौ ॥१४८४ ॥ अवेयकं सुखं भुङ्क्त्वा प्रियङ्कर-हितङ्करौ । सञ्जातौ नन्दनौ दाश-रथेरत्र लवाकुशौ ॥१४८५ ।। प्राग्भवार्जितपुण्येन रामपुत्रौ लवाङ्कुशौ । सञ्जातौ बलिनौ वर्य-रूपनिर्जितमन्थौ ॥१४८६ ॥ एवं पूर्वभवान् राम-लक्ष्मणादिमहीभुजाम् । प्रोक्त्वा विशेषतो धर्म जगौ सकलभूषणः ॥१४८७ ॥ * तथा हि-"वरिसह ते गेआ दीहडा जे जिणधम्मिहिं सार । तिनि सया ऊण सहडीई तईगुणइ गमार ॥१॥ * 'इयं मायारात्रिर्बहुलतिमिरा मोहललितैः, कृतज्ञानालोकास्तदिह निपुणं जाग्रत जनाः के अलक्षः संहतुं ननु तनुभृतां जीवितधना-न्ययं कालश्चौरो भ्रमति भुवनान्तः प्रतिदिनम् ॥२॥ 'आसन्नसिद्धिआणं विहिबहुमाणो अ होइ नायब्यो । विहिचाओ अविहिभत्ती अभवजीअदूरभव्वाणं ॥३॥ धन्नाणं विहियोगो विहिपक्खाराहगा सया धन्ना । विहिबहुमाणा धन्ना विहिपक्ख अदूसगा धन्ना' ॥४॥
mammmmmm
IELTSSTUSSUUSSSTSEIS:SESC
॥४४७॥
For Private and Personal Use Only