________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥४४६॥
1252525252525252SSTSESC25
* यतः-"सती पत्युः प्रभोः भृत्यः गुरोः शिष्यः पितुः सुतः । आदेशे संशयं कुर्वन खण्डयनात्मनो ब्रतम् ॥ काशीशेन तदाऽत्यन्तं किसी दूत एव स । सर्वगुप्तान्तिके गत्वा काशीशोक्तं न्यवेदयत् ॥१४६८ ॥ श्रुत्वेति सर्वगुप्तोऽथ सन्नह्य शिविरं निजम् । काशीनाथं विजेतुं तु चचालाऽतुलविक्रमः ॥१४६९ ॥ काशीसत्कमथो देशं लुण्टयन् सर्वगुप्तकः । तृणवन्मन्यते विश्वं स्वीयदोरोजसा तदा ॥ १४७० ॥ काशीशः कसिपो भूपः आकार्य रतिवर्द्धनम् । सपत्नीनन्दनं भक्त्या गौरवं तस्य च व्यधात् ॥१४७१ ॥ ततः कसिपभूपालःस्वामिनं रतिवर्द्धनम् । अग्रे कृत्याऽचलज्जेतुं सर्वगुप्ताभिधं रिपुम् ॥१४७२ ॥ युद्धं कुर्वन् रणे सर्वगुप्तो भग्नबलस्तदा । रतिवर्द्धनभूपेन सार्द्ध दीनमना अभूत् ॥ १४७३ ॥ लात्वा सर्वबलं सर्व-गुप्तस्य मन्त्रिणोऽन्तिकात् । रतिवर्द्धनभूपालो यदाऽभूत् सबलो भृशम् ॥१४७४ ॥ तदा नंष्ट्वा द्रुतम् सर्व-गुप्तो गत्वाऽतीदूरतः । अरण्येऽभूत् पुलिन्दस्य सदृशो विभवक्षयात् ॥ १४७५ ॥ विजित्य वैरिणं सद्यो रतिवर्द्धनभूपतिः । स्वीयपुर्यां समायातः कुर्वाणो विजयोत्सवम् ॥१४७६ ॥ रतिवर्द्धनभूपाले स्वीये शेषवले सति । कसिपो मेदिनीपालः सुखं राज्यं चकार सः ॥१४७७॥ अन्येधुनगरोद्याने सूरीशं शीलसुन्दरम् । रतिवर्द्धनभूपालो वन्दितुं समुपेयिवान् ॥ १४७८ ॥ श्रुत्वा धर्म समुत्पन्न वैराग्यो रतिवर्द्धनः । वितीर्य पुत्रयो राज्यं ललौ दीक्षां तदन्तिके ॥१४७९ ॥
ISESSESSESEGISSAGERSE
॥४४६॥
For Private and Personal Use Only