________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
3
शत्रुञ्जय कल्पवृ० ॥४३३॥
SSESEPSISSELSEGESSELSE
ततश्च खदिराङ्गारै-ज्वलद्धिबहुभिर्भृशम् । खातिकायां भृतायां तु विवेश जनकात्मजा ॥१३१६ ॥ तदा ते खदिराङ्गारा बभूवुः सलिलं द्रुतम् । बर्यशीलप्रभावेण सीतोत्तीर्णा ततश्च ताम् ॥१३१७ ॥ राम कालमुखं दृष्ट्वा पश्यतीषु प्रजासु च । सीता स्वभक्तिसूचार्थ काव्यमेकं जगाविति ॥१३१८ ॥ * मा गा विषादभवनं भुवनैकवीर ! निःकारणं विगुणिता किमियं मयेति । ।
देवेन केनचिदहं दहने निरस्ता निस्तारिता तु भवता हृदयस्थितेन ॥ १३१९ ।। ततस्तदा जनाः सर्वे जानक्याःशीलमद्भुतम् । निरीक्ष्य जगदुः प्रोच्चैः स्वरैः हर्षप्रपूरिताः ॥ १३२० ॥ * सीतया दुरपवादशङ्कया पावके स्वतनुराहुतिः कृता ।)
पावकः सुजलतामियाय यत् तत्र शीलमहिमानिबन्धनम् ॥१३२१ ॥ यतः-"रामेण तओ भणिया पासत्था किंकरा खणह खाणि ।
तिण्णेव उ हत्थसया समचउरंसावगाढा य ॥१३२२ ।। पूरेह इंधणेहिं कालागरु-चंदणाइचूलेहिं । चंडं जालेह लहुँ खाणीए सव्वओ अग्गिं ॥१३२३ ॥ धगधगंतसद्दो प्पज्जलिओ हुअवहो कणयवण्णो । गाउयपरिमाणासु य जालासु णहं पदीप्पंतो ॥१३२४ ॥ अइचवल चंचलाउ सव्वत्तो विष्फुरंति जालाओ ।
255PSTITSS2552552552
For Private and Personal Use Only