________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
लोकदत्तं कलहूं तु मुधा मय्यवगत्य सः । त्याजयामास मां दूरेऽरण्ये स्वीयानुगान्तिकात् ॥१२८३ ।। निशम्य जननीवाक्यं चमत्कृतिकृते तदा । असङ्ख्यबलसंयुक्तौ त्वरितं लवणाङ्कुशौ ॥१२८४ ॥ जनकं वज्रजवंतु पुरः कृत्वा पुरात्ततः । चेलतुः सुदिनेऽयोध्या-पुरि प्रति प्रमोदतः ॥१२८५ ॥ युग्मम् ॥
योजनानां चतुः प्रान्तेऽयोध्याया विद्विषो बलम् । आयान्तमधिगम्याशु सन्नर रामलक्ष्मणौ ॥१२८६ ॥ शत्रुञ्जयम
निर्गतौ कुञ्जरारूढौ नानावाधपुरस्सरम् । सम्मुखं ययतुर्जेतं वैरिणं बलशालिनम् ॥ १२८७ ॥ कल्पवृ०
रामरावणवत्तत्र सङ्ग्रामो दारुणस्तदा । लवणाकुशपुत्राभ्यां रामलक्ष्मणयोरभूत् ॥ १२८८ ॥ ॥४३०॥
लक्ष्मणेन विमुक्ते तु चक्रं तौ वैरिणौ प्रति । प्रयासो विफलो जातो वैरिमृत्योरभावतः ।। १२८९ ॥ ततश्चक्री जगौ राममावां बलिहरी न हि । किन्त्वेतौ हरि-लक्ष्मीशौ समुत्पन्नौ नवौ स्फुटम् ॥१२९०॥ यतः-"एअंतरे अमोहं चक्कं जालासहस्सपरिवारं । लच्छीहरेण मुक्कं कुसस्स तेलोकभयजणणं ॥१॥ गंतूणं कुससयासं तं चक्कं वियसियप्पहं सिग्छ । पुणरवि अ पडिनियत्तं संपत्तं लक्खणस्स करे ॥२॥
तं लक्खणेण चक्कं खित्तं खित्तं कुसस्स रोसेणं । विहलं तं पडिनियत्तइ पुणो पुणो पवणवेएणं ॥३॥" __अत्रान्तरे तथाऽस्फालि धनुरङ्कुशशत्रुणा । यथा रामवलं सर्व भूमिसुप्तमिवाभवत् ।। १२९१ ॥
प्रोचतुः भ्रातरौ द्वौ तु नवीनौ रामलक्ष्मणौ । समुत्पन्नौ ततः प्राह लक्ष्मणो राघवं प्रति ॥१२९२ ॥
12952152SPS2S2525252SE
SPSESSEZSZESSES252525
॥४३०॥
For Private and Personal Use Only