________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ० ।। ४२९ ।।
352552552525
www.kobatirth.org
ततस्तेनादराद्धर्म्म - शास्त्राणि लवणाङ्कुशौ । पाठितौ च तथा जातौ यथा धम्मिष्ठशेखरौ ॥ १२७१ ॥ sarsoयदा धनोऽष्टाङ्ग-निमित्तज्ञो वराशयः । तत्रागतो ददौ विद्या लवणाङ्कुशयोर्निजाः ॥ १२७२ ॥ सोम्यत्वेनेन्दुसङ्काश तेजसा रविसन्निभौ । द्विधान्मङ्गलाभौ तु ज्ञातृत्वेन बुधोपमौ ॥ १२७३ ॥ विद्यया गुरुतुल्यौ तु सद्बुध्या कविसुन्दरौ । क्रूरेषु शनिभौ जातौ लवणाङ्कुशनन्दनौ ॥ १२७४ ॥ युग्मम् ॥ विनयादिगुणग्रामै रज्जयन्तौ सदा जनान् । वज्रजङ्घ निषेवेते सद्भक्त्या लवणाङ्कुशौ ।। १२७५ ॥ वज्रजङ्घमहीशेन शशिचूलामुखा वराः । द्वात्रिंशत् कन्यका आयो लवणः परिणायितः ।। १२७६ ॥ पृथ्वीपुरे पृथुक्ष्माप-पुत्री कनकमालिका । वज्रजङ्घधरेशेना- कुशोऽथ परिणायितः ।। १२७७ ॥ अनयोः परिणयनविस्तरः शास्त्रान्तराज्ज्ञेयः ।
Acharya Shri Kailassagarsuri Gyanmandir
बहुभूपखगैः सेव्य-मानक्रमसरोरुहौ । तिष्ठतः स्म सुखे तत्र नगरे लवणाङ्कुशौ ।। १२७८ ।। क्रमाल्लवणाङ्कुशौ पश्च सहस्र व्योमगाश्रितौ । दुर्जेयौ सदां जातौ स्वस्वोल्लसद्भुजौजसा ॥ १२७९ ॥ एकदा तौ प्रणम्याधीं मातुः प्रपच्छतुर्मुदा । किंनामा ते पतिः कस्य सूनुः सोऽस्ति निगद्यताम् ।। १२८० ॥ ततो माता जगौ भूमी - पतेर्दशरथस्य तु । वृद्धः पुत्रो बलीयोऽस्ति स मे कान्तो जगद्धितः ॥ १२८१ ॥ येनाहं प्रहृतास्मा- दशास्येनद्दढौजसा । वालिता युद्धयोगेन स मे कान्तो मनोरमः ।। १२८२ ॥
For Private and Personal Use Only
SESPSS 255 25 25 25525525:5251
॥ ४२९ ॥