________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
SELSSSSSSSSSS
॥४२७॥
आकण्यैतद्वचो रामो मूर्छामाप्य पुनः पुनः । सीतां सस्मार चित्तान्त-विललाप मुहुर्मुहुः ॥ १२५१ ॥ हा ! मूढेन मया सीता-ऽत्याजि भीषणकानने । किं धात्रा प्रददे बुद्धि-रीदृशी मम साम्प्रतम् ॥ १२५२ ॥ निर्दोषा सा सती सीता लोकालोक प्रजल्पनात् । यत् त्याजिता वने भीष्मे तन्मे मौढयविजृम्भणम् ॥ १२५३ ॥ जानक्या विप्रयोगेन दुःखितं राघवं भृशम् । आलोक्य लक्ष्मणः प्राह दुखं किं क्रियतेऽधुना ॥ १२५४ ॥ अविमृश्य कृतं कार्य दुःखाय जायते नृणाम् । सुविमृश्यं तु सौख्याय जायते नात्र संशयः ॥ १२५५ ॥ यतः—“सहसा विदधीत न क्रिया-मविवेकः परमापदां पदम् ।
बृणते तु विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥१२५६ ॥ धीरतां प्रतिपद्यस्व कातरत्वं त्यज द्रुतम् । न कृतात् कर्मणः कोऽपि छुटिष्यति शरीरभाग ॥ १२५७ ॥ यतः -" आयाम गिरिसिहरे जले थले दारुणे महारणे ।
जीवो संकडपडिओ रखिज्जइ पुव्वसुकएण ॥१॥ अह पुण पावस्सुदए रखिज्जतोवि धीरपुरिसेहिं । जंतू मरइ णिरुत्तं संसार ट्ठिई इहं लोए ॥२॥" बोधितो लक्ष्मणेनैव तदा रामोऽपि सन्ततम् । राज्य कार्य वितन्वानः सीतां सस्मार चेतसि ॥ १२५८ ॥ सीतागुणगणान् नित्यं स्मरन् जनपदोऽखिलं । रोरुयते तथा पार्श्वे स्थितानपि च दुःखयेत् ॥१२५९ ।।
DOLSTISSSSSSEISTIE
For Private and Personal Use Only