________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ० ॥ ४२६ ॥
32525525252525
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भो भो भगिनि ! सीते ! त्वमुत्तिष्ठेहि पुरे मम । कुर्वन्ती धर्म्ममाप्तोक्तं सन्तिष्ठ सदने सुखम् ॥ १२३९ ॥ श्रुत्वेति वचनं वज्र - जङ्घस्य जनकात्मजा । ध्यायन्ती जिनपं चित्ते हृष्टा धत्ते धृतिं तदा ।। १२४० ॥ जानकीं शिविकारूढां कृत्वा वज्रमहीपतिः । भगिनीमिव नीन्ये स्व-गेहे सूत्सवपूर्वकम् ॥ १२४१ ॥ वज्रजङ्घमहीशेन दत्ताssवासे सुखं स्थिता । सीता भामंडलावासे स्थिति स्वा मन्यते तदा ॥ १२४२ ॥ इतो रामान्तिकेऽभ्येत्य कृतान्त ऊचिवानिति । स्थाने त्वयोदिते सीता यदा मुक्ता तदा जगौ ॥ १२४३ ॥ सिंहर्क्ष भल्ल - चित्रक -गोमायु- व्याघ्रभीषणे । वने मुक्ता मयाऽवादी-दश्रुपूरितलोचना ।। १२४४ ॥ पत्युर्मे दूषणं नास्ति दूषणं मे कुकर्म्मणः । येन छलादहं भृत्य-पाश्र्वादत्र विमोचिता ।। १२४५ ।।
त्वयोच्यं मे पुरः पत्युः सीता मुक्ता वने वरे । ध्यायन्ती श्रीजिनं वन्यहाराऽस्ति सुखशालिनी || १२४६ ॥ मा मे वियोगतो दुःखं श्रुत्वा दाशरथिः पतिः । हृदयस्फोटतो याया न्मरणं जीवितात्ययात् ॥ १२४७ ॥ सिंह- व्याघ्रादिजीवेभ्यो दुष्टेभ्यो विभ्यतीतराम् । कम्पमानतनुर्मुक्ता मया परं तु सा पुनः ।। १२४८ ॥ न ज्ञायतेऽधुना सा तु सिंहादि श्वापदैर्वने । भक्षिताऽस्त्यथवा जीव - धारिणी जीवितौजसा ।। १२४९ ॥ यतः - " सामिय सहावभीरू अहिययरं दारुणे महारणे ।
बहुसत्तभीसणरणे जणयसूआ दुक्करं जियइ ॥। १२५० ।। "
For Private and Personal Use Only
52252557252525252525
॥ ४२६ ॥