________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय कल्पवृ●
॥ ४२१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इतो रामो व्रजन् मार्गे तिष्ठव संसदि स्फुटम् । जनानामिति वाक्यानि सुश्राव प्रतिवासरम् ॥ ११९९ ॥ चिरकालं स्थिता सीता रावणस्य निकेतने । तेन शीलं न जानक्या पालितं भावि तत्र च ॥ १२०० ॥ सीतामेवंविधां दुष्ट कलङ्कसहितां किल । यदि रामो रक्षति स्वीय-गेहे मुदितमानसः ॥ १२०१ ॥ तदा कस्य वितीर्येत दोषः सामान्यनुः पुनः । अतो नो रक्षितुं युक्तं जानक्या निजसधनि ।। १२०२ ॥ यतः -- " जंपर पुणो पुणो चित्र जह सीआ रक्खसाग गाणं ।
हरिऊण य परिभुत्ता इहाणीआ तहवि रामेणं ।। १२०३ ॥ उज्जाणेसु घरेसु य तलाव - बावीस जणवओ सामी । सीया अववायकहं मोतूणं ण जंपए अथणं ॥ १२०४॥ दसरहणिवस्स पुत्तो रामो तिसमुद्दमेहणीणाहो । लंकाहिवेण हरियं कह पुण आणेड़ जणयसुयं १ ॥ १२०५ ॥ एवं वचस्तदा श्रुत्वा रामो हतमनास्तदा । वज्राहत इवातीव दुःखितोऽजनि चेतसि ।। १२०६ ।। यस्याः कृते मया पापं भूरि- जीववधात्मकम् । कृतं वाढं मुधा तस्मात् श्वभ्रेऽहं पातमाप्तवान् ।। १२०७ ॥ दुःखमूलं भवेन्नारी नरकस्य नृणां खलु । यस्था मोहेन दुःखानि लभतेऽगी पदे पदे ॥ १२०८ ॥ उक्तच - " धण्णा ते वरपुरिसा जे चित्र मोचूर्ण निययजुवईओ ।
पच्वइआ कयनियमा स्विमयलमणुत्तरं पत्ता ॥ १ ॥
For Private and Personal Use Only
॥ ४२१ ॥