________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥४२२॥
SISESTSETSESESTUTTUSE
रामस्य मानसं दूनं दृष्ट्वाऽवग् लक्ष्मणस्तदा । मेरुचूलेव सीताऽस्ति निश्चला शीलपालने ॥१२०९॥ वारितो लक्ष्मणेनापि राघवः प्रोक्तवानिति । सीता चेत्त्यज्यते साधु-वाद एव तदा भवेत् ॥१२१० ॥ कलङ्किताऽथ सीता चे-द्रक्ष्यते स्वीयसद्मनि । तदा कलङ्क आत्मीय-देशे भवति निश्चितम् ॥१२११ ॥ ततो दाशरथश्छन्नं भृत्यं कृतान्तनामकम् । आकार्याऽवम् रथारूढां कृत्वा जनकनन्दिनीम् ॥ १२१२॥ गङ्गायाः पुरतः कूले गत्वा त्यक्याऽधुना द्रुतम् । आगम्यं भवताऽत्रैव निर्विचार त्वमेककः ॥ १२१३ ॥ ततोऽष्टापदसर्वज्ञ-वन्दनाछलतस्तदा । कृत्वा सीतां रथारूढां कृतान्तश्चलितो निशि ॥ १२१४ ॥ अन्यस्यां दिशि गच्छन् स कृतान्तः सीतयोदितः । भ्रातस्त्वं कथमन्यस्यां दिशि यासि निगद्यताम् ? ॥ १२१५ ॥ कृतान्तोऽवक् तव प्राण-प्रियेणोचे ममाऽग्रतः । सीतां कलङ्किनी गङ्गा-वरकूले त्यजाऽचिरात् ॥१२१६ ।। ततो जनकनन्दिन्या ध्यातं मे रमणोऽधुना । देवेन प्रेरितो गङ्गा-कूले त्याजयति ध्रुवम् ॥ १२१७ ।। उत्तीर्य तु नदीकूलं सीतां तत्र त्यजन् बने । दध्यावहमधन्योऽस्मि यतोऽभूवं हि किङ्करः ॥१२१८॥ यतः-“णिअइट्ठवज्जिअस्स उ अहिअं दुक्खेक्क तग्गय मणस्स ।
भिच्चस्स जीवियाओ कुक्कुरजीयं वरं हवइ ॥१॥ परघरलद्धाहारो साणो होऊण वसइ सच्छंदो । भिच्चो परवसो पुण विक्किअदेहो निअयकालं ॥२॥
SESSTIEGESSTISSOS
mmmmmmmmmmmmmmmm
॥४२२॥
For Private and Personal Use Only