________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ.
॥४१७॥
PISSELSESSESSIGHTSELSES
कोशाम्बीशस्तदेवेन्द्र-दत्तः खरुलिका-गतः । धनुर्विद्या विदं-ज्ञात्वा-चलं हृष्टोऽभवन्नृपः ॥११५९ ॥ विश्राणितेन्द्रदत्तेन मित्रदत्ता स्वनन्दिनी । अचलाय ततो राज्यं नृपोऽदाद् रुचिरोत्सवम् ॥११६० ॥ अङ्गादि-विषयान् जित्वा भूरीभाश्वनृसंयुतः । मथुरासन्निधौ प्राप्तोऽचलो विग्रहहेतवे ॥ ११६१ ॥ धनप्रदानतः सर्वान् पुत्रादिनृपसेवकान् । वशीकृतान् द्विषाऽनेन चन्द्रभद्रो विवेद च ॥११६२ ।। ततः सन्धिकृते राजा समुद्रं निजशालकम् । अचलस्यान्तिके प्रैपीद् ददर्श सोऽचलं तदा ॥ ११६३ ॥ वितीर्य प्राभृतं तस्मै पश्चादेत्य स शालकः । अचलागमनं भूमी-पतेरग्रे न्यवेदयत् ॥११६४ ॥ ततो राजा बलिष्ठं तं पुत्रं ज्ञात्वाऽथ सम्मुखम् । यावद् याति सुतस्तावत् पितुः पादौ ननाम सः ।। ११६५॥ अचलाय निजे राज्ये वितीर्णे भूभुजा तदा । पुत्राद्या निखिला भृत्या अचलं नेमुरादरात् ॥११६६ ॥ चन्द्रभद्रो व्रतं लात्वा तीवं तप्त्वा तपश्चिरम् । सिद्धक्षमाधरे मुक्तिं ययौ सर्वतमःक्षयात् ॥११६७ ॥ अङ्काय मिलितायाऽथा-चलेन प्रीतिसंजुषा । श्रावस्तीनगरीराज्यं दत्तं सम्मानपूर्वकम् ॥ ११६८॥ कृत्वा राज्यं चिरं स्वीय-सूनवेऽचलभूपतिः । अङ्कयुक्तो ललौ दीक्षां समुद्रमुनिसन्निधौ ॥११६९ ॥ अचलाको यती तप्त्वा तपः स्वर्गे गतौ सकौ । भुञ्जाते स्वर्गजं सौख्यं देवीदिव्यसमन्वितौ ॥११७० ॥ अचलो निर्जरः स्वर्गाच्च्युतश्च कैकयीसुतः । शत्रुघ्नोऽभूद्दशरथ नन्दनो-विश्वनन्दनः ॥ ११७१ ॥
STIPSETS
॥४१७॥
maintambooorani
For Private and Personal Use Only