________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
H जीवो जवणदेवस्य भुक्त्वा तत्र सुखं चिरम् । च्युत्वाऽभून्मथुरापुर्या महेभ्यो धनदाभिधः ॥ ११४६ ॥ Hएवं जवणदेवस्य जीवो भूरि-भवान् क्रमात् । उत्पन्नो मथुरापुर्या नरनारीभवादिभिः ॥११४७ ॥
इतश्च मथुरापुर्या चन्द्रभद्रमहीपतेः । पत्न्यस्तिस्रोऽभवन् वर्या लक्ष्मी-पद्मा-रमाभिधाः ॥११४८ ॥
आद्यपत्न्याः सुतः सूरः शूरतुल्यपराक्रमः । वभूव क्रमतो मार-रूपः स्वीयतनुत्विषा ॥ ११४९ ॥ शत्रुञ्जय
द्वितीयाऽसूत पुत्रौ तु रामभीमाभिधानतः । क्रमेण भवतां रूप-पराभूतरमाभवौ ॥११५०॥ कल्पवृक्ष
तृतीयस्या अभूत् पुत्रो धनदस्यासुमान् पुनः । तस्यासीदचलेत्याह्वा चारूत्सवपुरस्सरम् ॥ ११५१ ॥ ॥४१६॥
इतो मृगाङ्कनगरे मङ्गिकाया सुतोऽभवत् । अङ्कनामा लसद्रूपः पूर्वपुण्यशुभोदयात् ॥११५२ ॥ क्रमादविनयीभूतो जनकेनाथ ताडितः । अङ्को देशान्तरे ग्रामे ग्रामे बभ्राम सन्ततम् ॥११५३ ॥ सपत्नीतनयः श्वेड-दानाद् भूपप्रियोऽपि च । हन्यमानोऽचलच्छन्नं प्रविष्टो दिवसात्यये ॥११५४ ॥ कटकेनाऽथ विद्धानि-रशक्तश्चलितुं वने । अचलो वीक्षितोकेन गच्छतेन्धनमौलिना ॥ ११५५ ॥ उत्तार्येन्धनभारं स कण्टकं चाचलाधितः । उच्चकर्ष यदा तं प्रतीत्यचलस्तदा ॥११५६ ॥ ततोऽचलो जगादाएं प्रत्येवं यदि चेन्मम । राज्यं भावि तदा तत्रा-गन्तव्यं भवताऽङ्कक ! ॥११५७ ॥ अचलेनेति गदिते श्रावस्त्यामङ्क ईयिवान् । अचलोऽपि कोशाम्ब्या-मुद्याने समुपेयिवान् ॥११५८ ॥
SZS252525252SE2S
ESSASTSESETESTSESES25
winnar
॥४१६॥
SESE
For Private and Personal Use Only