________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ० ॥४११॥
JESESEASESS S2525252SSESTI
ततः स्त्रीणां सहस्रैश्च संयुता कैकयी मुदा । संयत्याः सन्निधौ दीक्षां लात्वा प्रापुः शिवश्रियम् ॥१०८७ ॥ मुनिपाइ स मातङ्गः प्रव्रज्य विरतिं तदा । षष्ठाष्टमादि कुरुते तपस्तीनं निरन्तरम् ।। १०८८ ॥ पारणे शुष्कपत्रादि प्रासुकं भक्षयन् गजः । चत्वारि हायनान्येव तपः षष्ठादि स व्यधात् ॥१०८९ ।। कृत्वा संलेखनां प्रान्ते मृत्वा स कुञ्जरः क्रमाव । ब्रह्मस्वर्गे गतः सौख्यं भुङ्क्तेस्म समयं बहु ॥ १०९० ॥ ततश्च्युतो गजो देवः सम्प्राप्य मानुषं भवम् । सर्वकर्मक्षयान्मुक्ति-सातमासादयिष्यति ॥ १०९१॥ सुमेरुवत् स्थिरो धीरो बिहरन् भरतो भुवि । समशत्रसुहृद्भावो-ऽसातसातसमाशयः ॥१०९२ ॥ भरतस्तीव्रतपसा क्षिप्त्वा शेषतमश्चयम् । सम्प्राप्य केवलज्ञानं सिद्धाद्री शिवमाप्तवान् ।। १०९३॥ भरतेन समं ये तु सिद्धार्थरतिवर्द्धनौ । धनवाहमुखा भूपा-स्तेऽपि केचिच्छिवं ययुः ॥१०९४ ॥ केचित स्वर्गे तृतीये तु केचित् तुर्ये च पञ्चमे । केचित् सर्वार्थसिद्धे च विमाने समुपागमन् ॥१०९५ ॥ तेऽपि वाचंयमाः स्वर्गाच्च्युत्वाऽऽप्य मानुषं भवम् । क्षिप्त्वा कर्माखिलं मुक्ति-पुरीं यास्यन्ति हेलया ॥ भरतस्य वियोगेन लक्ष्मणो दुःखितो हृदि । यावदासीत्तदाऽऽगत्य विराधः सेवको जगौ ॥ १०९७ ।। भरतोऽखिलकम्मौंघ क्षिप्त्वा गत्वा शिवाचले । ययौ मुक्तिपुरी हर्ष मागमल्लक्ष्मणो भृशम् ॥१०९८ ।। रामोऽथ भूपतीन् भूरी-नाकार्य रुचिरोत्सवम् । अभ्यपिञ्चत् तदा राज्ये लक्ष्मणं चक्रधारिणम् ॥१०९९ ॥
22STSETSESSISSISSES
For Private and Personal Use Only