________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ०
॥४०९॥
2525252525252525252SOSE
मायोपार्जितपापस्यो-दयाद्विप्रासुमान च्युतः । विन्ध्याटव्यामभूद्धस्ति हस्तिनीशतसेवितः ॥१०६२ ।। सूरोदयासुमान् भ्रान्त्वा भवेषु भूरिषु क्रमात् । विन्ध्याटव्यामभूद्धस्ति हस्तिनीशतसेवितः ॥१०६३ ॥ बलिनं हस्तिनं दृष्ट्वा रावणो भूमिनायकः । आनिनाय निजावासे महामहःपुरस्सरम् ॥ १०६४ ।। दशास्यस्तस्य भुवना-लङ्कारेत्यभिधां ददौ । अधुना लक्ष्मणावासे विद्यतेऽसौ मतङ्गजः ॥१०६५॥ अधुना भरतं पूर्वभव-सोदरमेक्ष्य स । कुञ्जरो निन्दति स्वीयं भवं तिर्यग्भव ध्रुवम् ॥१०६६॥ यतश्चैतौ यतिचन्द्रो-दयमूरोदयाभिधौ । दीक्षां श्रीवृषभोपान्ते लात्वा प्रमादमीयतुः ॥१.६७ ॥ अतो भूरिभवान् भ्रान्त्वाऽधुना भरतकुञ्जरौ । अभूतां भूपमातङ्ग-वंशभूषणकारकौ ॥ १०६८॥ अयं कुम्भ्यधुना वृत्तं लिलासुर्मुक्तिहेतवे । अशक्तो निन्दति स्वीयं भवं तिर्यग्भवोद्भवम् ॥१०६९।। यतः-भंतूण लोहखंभं एसो हु गओ बलेण संखुभिओ । भरहालोए सुमरिज पुब्बभवं उवसमं पत्तो ॥१०७०॥ यतः-नाऊणं एवमेयं चवलतडियसमं सव्वसत्ताणजीयं, संजोगाविप्पओगा पुणरबि बहवो होति संबंधिबंधा । संसारं दुखसारं परिभमिय चिरं माणुसत्तं लहे, तुज्झेत्थं धम्मकज्जं कुणह सुविमलं बुद्धिमन्ताऽपमत्ता ॥ एवं ज्ञानी वचः श्रुत्वा भरतादिमहीभुजः । बहवः संयमं लातुकामा जाता शिवाप्तये ॥१०७२ ॥ तत उत्थाय भरतः कृताञ्जलिर्जगावदः । भग्नोऽहं भवदुःखेभ्यो भ्रामं भ्रामं भवान् बहून् ॥१०७३ ।।
RSSSSSSSS 25525252
AN४०९॥
For Private and Personal Use Only