________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
S
शत्रुजय कल्पवृ०
॥४०८॥
ELIPS
तस्मिन् विदारिते काष्ठे गत्वा तत्र महीभुजः । दृष्टः सर्पस्ततोऽरक्षि तत्र रोग तपस्विना ॥१०५०॥ ततस्तं ज्ञानिनं सत्यं मत्वा भूयो यतेगिरा । लिलासुरभवद् वृत्तं कल्याणकमलाप्रदे(दं) ॥१०५१॥ राज्ञो मुखादहिः सोऽपि स्मृत्वा पञ्चनमःकृतिम् । मृत्वा मरुद्गृहे देवो महर्द्धिः समजायत ॥१०५२ ।। पत्नी पुरोहिताऽऽसताऽन्यदा कुलकरं प्रति । विषदानान्निनायाऽऽशु मृति क्रूरतराशया ॥१०५३ ॥ मृतः कुलङ्करः श्वेड-योगादार्तिपरस्तदा । शशकोऽभूत्ततो मोर-स्ततो नागस्ततो गजः ॥ १०५४ ॥ कुर्कुरो दर्दुरस्तस्माद् भवात् सर्पश्च दर्दुरः । अभूत् शुचिरतो मृत्वा गजः सूरोदयासुमान् ॥१०५५॥ ततो मच्छोऽभवत् काक-भक्षितः कुर्कुटोऽजनि । ततः काकस्ततः कुम्भी तत ओतुस्ततो गजः ॥१०५६ ॥ चन्द्रोदयासुमान विप्रो भूत्वा स्नानेन भूरिशः । जीवान् हत्वाऽभवद् व्याघ्र-स्ततो मच्छोऽभवत् पुनः ॥ चतुर्योनिषु सम्प्राप्य भवान् भूरीन नरादिषु । चन्द्रोद्रयासुमान् जातो विप्रः कमलपत्तने ॥ १८५८ ॥ तत्र प्राप्य वृष जैनं कुर्वाणो वरभावतः । मृत्वा गत्वा दिवि च्युत्वा भरतोऽयमभून्नृपः ॥१०५९ ॥ अकामनिर्जराकर्म तीव्रतपोयोगात् क्षयन् तप । कमलेपत्तने तस्मिन् विप्रस्य च स्यतित्वतं (१) ।
___ सुहृत् प्रीतिपरो जातो जैनधर्मरतः पुनः ॥ युग्मम् ।। १०६०॥ मायया वश्चयन् लोकान् धर्माज्जातः स निर्जरः । पूर्वोपार्जितपुण्येन सदैव सुखवानभूत् ॥ १०६१ ॥
४०८॥
For Private and Personal Use Only