________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ.
॥३९९॥
2525252525252525252525
ममानेन शरीरेण भक्षितेनाधुना किल । आशाऽस्य मकरस्यैव पूर्यतां तात ! साम्प्रतम् ॥ ९४८ ॥ भक्ष्येऽस्मिन् मच्छरीरे तु गृहीतेऽस्य तनुमतः । मृत्युर्भावी ततः पापं भविष्यति तवाऽतुलम् ॥ ९४९ ॥ भक्षितां नन्दिनीं तेन ज्ञात्वाऽभ्येत्य पुरे निजे । राज्यं दत्त्वाऽङ्गजायाऽऽशु दीक्षां लिप्सुरभूच्च सः ॥ ९५०॥ द्वाविंशत्या सहस्रैश्च पुत्राणां सह चक्रिराट् । जग्राह संयम चन्द्र-शेखराचार्यसन्निधौ ॥ ९५१ ॥ तपस्तप्त्वा चिरं प्राप्य केवलज्ञानमन्यदा । भूरिसाधुयुतश्चक्री जगाम शिवसअनि ॥९५२ ।। इतः सा कन्यका खाद्य-माना तेन दुरात्मना । धर्मध्यानपरा देवी दिव्यरूपाऽभवद्दिवि ॥ ९५३ ॥ अनङ्गश्रीस्ततो मृत्वा जिनधर्मस्य सेवया । द्रोणस्य भूपतेः पुत्री विशिल्याऽजनि रूपभाग् ॥९५४ ॥ अस्यां गर्भ प्रजातायां मातू रोगश्चिरोद्भवः । गतोऽन्येषां च लोकानां क्षयादिर्दुःशको द्रुतम् ॥ ९५५ ॥ जिनेन्द्रस्यार्चनां शश्व-त्तथा करोति साम्प्रतम् । यथाऽधुनाऽपि लोकाना-मरिष्टं ब्रजति क्षयम् ॥९५६ ॥ उक्तंच-'सो भणइ दोणदुहिआ अत्थि विसल्ला गुणाहिया लोए । जीसे गम्भत्थाए जणणी रोगेण परिमुक्का ॥ जिणसासणाणुरत्ता णिच्चं पूआसमुज्जयमईआ । बंधूहि परियणेण य पूइज्जइ देवया चेव ॥२॥ पहाणोदयेण तीसे सुरहिसुगंधेण स देव ! सित्तोऽहं । समयं णिययजणेण तेण णिरोगत्तणं पत्तो ॥३॥' * पुण्येन लभ्यते राज्यं पुण्येन गेहिनी सुताः । पुण्येन जायते देहो नीरोगश्चामलं यशः ॥ ९५७ ॥ ॥
255PSESZS22TSUSZS255
For Private and Personal Use Only