________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsun Gyanmandie
शत्रुञ्जय कल्पवृ०
॥३९७॥
PSESSESSESSESESESESESETTE
तत्रैव सोदरौ कृष्ण-मुकुन्दौ वाडवौ सदा । निर्दयौ निन्दनं मौढयात् कुर्वाते साधुषु स्फुटम् ॥९२३ ॥ श्रीपुरे भूपतेवरि-मर्दनस्य सुधर्मि(मणः । दानं लातुं गताः कृष्ण-मुकुन्दाद्या द्विजाः क्रमात् ॥९२४ ।। लोभात् कृष्णमुकुन्दाभ्यां द्विजाविन्धकपल्लवौ । निहतौ हरिवर्षे तु अभूतां युग्मिनौ वृष्टात् ॥ ९२५ ॥ मृत्वा कृष्णमुकुन्दौ तु वने कालिञ्जराभिधे । अभृतौ शशकौ पाप-कर्मणा रोगसंयुतौ ॥९२६ ॥ यतः-'तिव्वकसायाण इहं पुरिसाणं साधुनिंदणपराणं । इंदियवसाणुयाणं णियमेणं दोग्गइगमणं' ॥१॥ मृत्वा ततो मृगौ जाती भीमेऽरण्येऽतिदुखितौ । ततश्च जम्बूको चन्द्रे बनेऽभूतां सरोगिणौ ॥ ९२७ ॥ एवं प्रान्त्वा भवास्तिर्यग्-योनिषु प्रचुरांस्तदा । अभूतां तापसौ बाल-तपोनिष्ठौ जटाधरौ ॥९२८ ।। मृत्वा विष्णुकुमारस्य भूपस्यारञ्जिकापुरे । पुत्रौ हस्तप्रहस्तौ तु प्रशस्तरूपधारिणौ ॥ ९२९ ।। युग्मिनौ ताविषे गत्वा श्रीपुरे वणिजौ वरौ । अभूतां धर्मकर्मादि-परौ सर्वज्ञसेवकौ ॥९३०॥ ततो गत्वा सुरावासे किष्किन्धाढे पुरे वरे । रक्षरजःसुतौ जातौ नलनीलाभिधौ वरौ ॥९३१ ॥ पूर्ववैरेण सङ्ग्रामे नलनीलौ नृपाङ्गजौ । नयतः स्म यमावासं हस्तप्रहस्तभूधवौ ॥९३२॥ यतः-"जो जेण हओ पुब्बं सो तेण हम्मए ण संदेहो । तम्हा ण हणेअब्बो अन्नो मोहादिई सत्तू ॥ ९३३ ॥ जो जीवाणं सेणिय ! देइ सुहं सो मुंजए सोक्खं । दुक्खं दुक्खावतो पाबइ नत्थेत्थ संदेहो ॥ ९३४ ॥"
ICP5525SELESTISSESSTIS:ETISH
॥३९७॥
For Private and Personal Use Only