________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुञ्जय कल्पवृ० ॥३९३॥
SESEZT25252525STIT
स्वाधीनेऽपि कलत्रे नीचः परदारलम्पटो भवति । संपूर्णेऽपि तटाके काकः कुम्भोदकं पिबति ॥ ८७३ ॥ रावणोऽवक सुमित्राङ्ग-भव ! त्वं मां गदन्निति । लभसे त्वरितं मृत्यु मम हस्तादतो ब्रज ॥ ८७४ ॥ एवं विधानि वाक्यानि जल्पन्ते सुहृदां पुरः। मौनं कृत्वा ब्रजित्वा त्व(त्वा)मन्यत्र सुखवान् भव ।। ८७५ ॥ शीर्षोपरितश्चक्रं भ्रमयित्वा च लक्ष्मण: । हन्तुं दशाननं रोषाद् मुमोच विगतकृपम् ।। ८७६ ।। चक्रेण तेन तत्कालं छिन्ने रावणमस्तके । लक्ष्मण ! त्वं जयाभीक्ष्ण-मित्यभूद्वाग् घनाध्वनि ॥ ८७७ ॥ तदानीं व्योम्नि गीर्वाणा जगुर्भूमौ नरा नृपाः । रेजू रावणशीर्षाणि पतितान्यधुना यतः ॥ ८७८ ॥ इह खलु विषमः पुराकृतानां भवति हि जन्तुषु कर्मणां विपाकः ।
कच ननु जनकाधिराजपुत्री क्व च दशकन्धरमन्दिरे निवासः ॥ ८७९ ॥ इह खलु० हरशिरसि शिरांसि यानि रेजुः । हर हर तानि लुठन्ति गृध्रपादे ।। ८८० ॥ पौषे कृष्णस्य पक्षस्यै-कादश्यां पश्चिमेऽहनि । दशग्रीवो मृतो यात-चतुर्थे नरके ध्रुवम् ॥ ८८१ ॥ यतः-एगो य सत्तमाए पंच पंच य छट्ठि ए एगो । एगो पुण चउत्थीए कन्हो पुण चउत्थपुढवीए ।। ८८२ ।। तदा जयजयेत्युच्चैाहरन्तः सुधाभुजः । विदधुः सुमनोवृष्टिं सौमित्रर्मस्तकोपरि ॥ ८८३ ॥ बिभीषणस्तदा सद्यः स्वस्थीकृत्य निशाचरान् । जगाद यदि सौमित्रं सेवध्वं जीवितं तदा ॥ ८८४ ॥
2SATISSTSETSSSSSSSS
॥३९३॥
For Private and Personal Use Only