________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शत्रुञ्जय कल्पवृ०
॥३९४॥
12SSISTISESESESESTSTSEE
कुम्भकर्णेन्द्रजिन्मेष-वाहनाधाः क्षमचराः । रामं नत्वा दशास्यस्य प्रेतकर्म क्सिमिरे ॥ ८८५॥ प्रणम्य श्री जिनाधीशं मातृवर्ग समं तदा । कारयामास सर्वत्र रामो जिनार्चनं मुदा ॥ ८८६ ॥ तत उद्यानवनतः सीतामानीय सत्वरम् । गीतगानादिनृत्यानि राघवो स्वं व्यधापयत् ।। ८८७ ॥ ततः सर्व परिवार स्वीयं दशमुखस्य च । राघवः प्रीणयामास सदनपानदानतः (पूजां व्यधात् स्वयम् ) । इतोऽमितबलो ज्ञानी लङ्कानगरसन्निधौ । षट्पश्चाशद सहस्रस्तु साधुभिर्युक्त ईयिवान् ॥ ८८९ ॥ राम-लक्ष्मण-सुग्रीव-कुम्भकर्ण-बिभीषणाः । इन्द्रजित्प्रमुखा भूपाः श्रुत्वा साधुसमागमम् ॥ ८९० ॥ महादानं वितीर्याऽऽशु कुर्वाणा रुचिरोत्सवम् । धर्म श्रोतुं समाजग्मु ानिनस्तस्य सन्निधौ ॥ ८९१ ॥ तिस्रः प्रदक्षिणा दत्त्वा साधोस्तस्य कृतादराः । धर्म श्रोतुमुपाविष्टा रामाद्या मेदिनीभुजः ॥ ८९२ ॥ यतः-"अह तस्स दिणस्संते साहु णामेण तत्थ अमिअबलो । छप्पन्नसहस्सजुओ मुणीण लंकापुरी पत्तो ॥८९३॥ जइ सो मुणी महप्पा एन्तो लंकाहिवम्मि जीवंते । तो लक्खणस्स पीइ होन्ती सह रक्खसिदेण ।। ८९४ ॥ झायंतस्स भगवओ नूणं घाइक्खएण कम्माणं । रयणिसमयम्मि तइआ केवलनाणं समुप्पन्नं ॥ ८९५ ।। सोऊण दुन्दुहिरवं देवाण समागयाण पउमाभो । खेयरबलेण सहिओ साहुसयासं समल्लीणो ॥ ८९६ ॥ ततो ज्ञानी जगौ धर्म-देशनां शिवशर्मदाम् । राम-लक्ष्मण-सुग्रीव महीशानां पुरस्तदा ।। ८९७ ॥
PSPSSEES2SSESS2S2SCS
॥३९४
For Private and Personal Use Only