________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय
कल्पवृ०
॥ ३९२ ॥
252925255
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्रावणः क्रुद्धो भ्रमवा शिरोऽभितः । चक्रं चिक्षेप लक्ष्मीशं गमितुं यमसद्मनि ॥। ८६१ ।। चक्रः प्रदक्षिणीकृत्य सौमित्रेः परितस्तदा । अलञ्चक्रे शयो वास्तोष्पतेर्दम्भोलिवत्तदा । ८६२ ॥ . लक्ष्मणोsवग् दशास्य ! त्वं मुञ्च सीतां सतीं यदि । तदा ते जीवितत्र्यं स्यादन्यथा चक्रतो मृतिः ॥८६३ ॥ रावणः प्राह मे चक्रं प्राणान्न मे हरिष्यति । मुञ्च त्वं लक्ष्मणेदानीं मम हस्ते समेष्यति ॥। ८६४ ॥ तदा मन्दोदरी पत्न्यऽभ्येत्याऽवम् रावणं प्रति । नह्येतौ मानवौ राम-लक्ष्मणौ किन्तु निर्जरौ ॥ ८६५ ॥ यतः - मनुष्यौ न मनुष्यौ तौ वानरास्ते न वानराः । व्याजेन किमपि छन्नं समेतावत्र निर्जरौ ॥ ८६६ ॥ विपरीते विधौ पुत्र भार्यापित्रादयः पुनः । विघटन्ते पुनश्चक्रं किमात्मीयं भविष्यति ? ॥। ८६७ ॥ यतः - " विहडs विवो विess वंधवो०
॥ ८६८ ॥
अतो न क्रियते कान्त ! साहसं दीयतेऽधुना । सीता सती तु रामाय ततो वर्य भविष्यति ॥ ८६९ ॥ एवं मन्दोदरीप्रोक्तो नात्यजद्रावणो मदम् । तदा लक्ष्मण आचष्ट मृत्युस्ते रावणाऽऽगतः ॥ ८७० ॥ मुश्च सीतां सतीं राम-भद्रस्य पदयोर्द्वयोः । सेवां कुरुष्व मुक्त्वा त्वं मानं भूर्यसुखप्रदम् ॥ ८७१ ॥ यतः - औचित्याचरणं विलुम्पति पयोवाहं नभस्वानिव प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितम् । कीर्त्तिकैरविणीं मतङ्गज इव प्रोन्मूलयत्यञ्जसा मानो नीच इवोपकारनिकरं हन्ति त्रिवर्ग नृणाम् ॥ ८७२ ॥
For Private and Personal Use Only
॥ ३९२ ॥