________________
Shri Mahavir Jain Aradhana Kendra
शत्रुब्जय कल्पवृ●
॥ ३९१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तीक्ष्णैः खड्गप्रहारैस्तु लक्ष्मणो यमसोदरः । शतसङ्ख्यान् यमावासं प्रेषयामास कौणपान् ।। ८४८ ॥ क्रोधोद्धमातमनास्तत्र लक्ष्मणः समराङ्गणे । आहत्य विशिखैवढं दशाननमताडयत् ॥। ८४९ ॥ विद्यया बहुरूपिया रावणोऽथ रणाङ्गणे । चक्रे स्वरूपतुल्यानि वपुंषि कोटिशस्तदा ॥ ८५० ॥ ततो व्योम्नि क्षितौ पृष्ठेऽग्रे पार्श्वयोश्च लक्ष्मणः । ददर्श रावणान् भूरीन् विविधायुधवर्षिणः ।। ८५१ ॥ यं यं दशाननं हन्ति लक्ष्मणः स स एव तु । द्विगुणादिककोट्यान्त-प्रमाणो जायते रणे ।। ८५२ ॥ लक्ष्मणो विशिखैर्वारं वारं लक्षशतप्रमान् । निघ्नन् कोटिमितांस्तत्र ददर्श रावणान् पुनः ॥ ८५३ ॥ लक्ष्मणस्य तदा बाण - गणेषु निशितेष्वहो । हिंसत्सु रावणान् प्रादुरासन् भूरिदशाननाः ॥ ८५४ ॥ ततो लक्ष्मण आचष्ट किं रावणप्रसूरभूत् । गर्त्ताया: शूकरी यस्माद् दृश्यन्ते भूरिरावणाः ।। ८५५ ।। किं वाच्छभी किंवा सर्पिणी किमु गोधिका । यतोऽधुना विलोक्यन्ते रावणा बहवो रणे ॥ ८५६ ॥ लक्ष्मणो बहुरूपाणां संहारिण्या च विद्यया । विना दशाननं मुख्यं जघानान्यान् दशाननान् ॥ ८५७ ॥ ततो दशाननः क्रुद्धः स्वं चक्रं वह्निपिण्डवत् । करे कृत्वा जगौ गच्छ नंवा लक्ष्मण ! हेलया ।। ८५८ ।। नो चेचक्रमिदं शीर्षं तव छेत्स्यति साम्प्रतम् । लक्ष्मणोऽवग् न नश्यन्ति शूराः वैरिभयात् कचित् ॥ ८५९ ॥ मुञ्च ते चक्रमागच्छन् मुष्टया चूर्णीकरिष्यते । लोहखण्डस्य नो गर्यो विधातत्र्योsधुना त्वया ॥। ८६० ॥
For Private and Personal Use Only
॥ ३९९ ॥