________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ०
॥ ३९० ॥
asassa55252
125252252525
www.kobatirth.org
ततो दशाननः श्रुत्वा जीवन्तं लक्ष्मणं प्रगे । विद्याया बहुरूपायाः साधितुं चोद्यतोऽजनि ॥ ८३५ ॥ पूजां कृत्वाऽष्टधा वर्या श्रीशान्तेः पोडशार्हतः । विद्याः साधयितुं लङ्का - धिपस्तामुद्यतोऽभवत् ॥ ८३६ ॥ चैत्रे मासे समायाते प्रोचतू रामरावणौ । चैत्रस्याष्टाह्निकां कर्त्तुं विद्यतेऽवसरोऽधुना ॥ ८३७ ॥ अत्राहःसु नवस्वेव जिनसद्मसु सादरम् । विधीयतेऽर्चना सर्व जिनानां श्रावकोत्तमैः ।। ८३८ ॥ आचाम्लानि विधीयन्ते श्रावकैरत्र पर्वणि । अर्हदादिपदानां तु जापश्च प्रतिवासरम् ॥। ८३९ ॥ चैत्रस्य शुक्लपक्षे चाष्टम्यादौ सुमहोत्सवः । पूर्णिमां यावतारब्धो रामरावणयोर्बले || ८४० ॥ चित्तस्स सुकपक्खे उभयवले अट्ठमीमाई । जावच्चिय पंचदसी अड्डा हिमहूसवो लग्गो ॥ ८४१ ॥ मन्दोदर्या निदेशन सर्वः पौरजनस्तदा । अष्टाह्निकामहचक्रे दशास्यो विघ्नशान्तये ॥ ८४२ ॥ सिद्धविद्य दशास्योऽथ प्रातः कृत्वा जिनार्चनम् । बुभूजे भूरिभिर्भृत्यैर्बान्धवैश्व समं मुदा || ८४३ ॥ द्वितीये च दिने प्रातः रामरावणयोमिथः । प्रावर्तत रणं घोरं भूरिजीववधात्मकम् ॥ ८४४ ॥ तदा दशाननो हन्तुं वाञ्छन् लक्ष्मीपतिं द्रुतम् । भूरिकौणपयुक्र सार्द्ध डढौके वैरिभिर्भृशम् ॥ ८४५ ॥ भरतोऽथ रणं कर्त्तुं प्रवृत्तो राक्षसैः समम् । कौणपान् लक्ष्मणोऽग्रैषीत् यमसः बहूंस्तदा || ८४६ ॥ दुरीकृत्या सिघातेन राक्षसान् हनुमान् बहून् । पौलस्त्यशिबिरं वाढं व्याकुलीकृतवान् खलु ॥ ८४७ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
125252525755252525252
॥ ३९० ॥