________________
Shri Mahavir Jain Aradhana Kendra
शत्रुज्जय
कल्पवृ०
॥ ३८८ ॥
5252525252525252 25252552
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
aaौ लक्ष्मणरक्षायै परितो बलसप्तकम् । रामादेशाद् व्यधुः सद्यः सुग्रीवाद्यः खमास्तदा ॥ ८१० ॥ सुग्रीवाङ्गदचन्द्रांशु-भामण्डलमुखाः खगाः । तस्थुः संवेष्टय रुदेहं लक्ष्मणावनहेतवे ।। ८११ ।। भामण्डलसुहृद्भानु-र्नभोविद्याधरायणीः । हितेच्छू राममभ्येत्य नत्वाssहेति कृताञ्जलिः ॥ ८१२ ॥ अयोध्यानगरीपार्श्वाद् विंशत्या योजनैः खलु । रक्षितं द्रोणभूपेन विद्यते द्रोणपत्तनम् ।। ८१३ ॥ कैकयीसोदरो द्रोणः स भूपो विद्यतेऽधुना । विशिल्याहा सुता तस्य विद्यते वरलक्षणा ।। ८१४ ।। तस्यां गर्भस्थितायां तु मातू रोगोऽतिदुःशकः । ययौ क्षयं च भूरीणां नृणां स्त्रीणां क्षणादपि ॥ ८१५ ॥ तस्या शरीरसंमूर्च्छा यस्यांगे लगति ध्रुवम् । तस्य दुष्टोऽपि रोगः श्राम् विलयमयतेतराम् ॥ ८१६ ।। देवताधिष्ठितं शल्यं निर्गच्छति शरीरतः । शाकिनी - व्यन्तरमुख्याः पराभवन्ति नो मनाग् ॥ ८१७ ॥ तस्याश्चेत् करसंस्पर्शो लक्ष्मणाङ्गे लगिष्यति । तदाऽयं लक्ष्मणः सज्जो जायते नान्यथा पुनः ॥ ८१८ ॥ श्रुत्वैतद्राम आचष्टाङ्गदभामण्डलादिकान् । यूयं याताऽधुनाऽयोध्या-पुर्यां भरतसन्निधौ ॥। ८१९ ।। सीताहरणवृत्तान्तं शक्त्या लक्ष्मणताडनम् । विशिल्यानयनोदन्तं भरताग्रे निवेद्यताम् || ८२० ॥ ततस्तत्र द्रुतं गत्वा निवेद्य राघवोदितम् । भरताय मरुत्पुत्रादयो द्रोणपुरं ययुः ॥ ८२१ || रामोक्तं निखिलं प्रोक्त्वा द्रोणभूमीपतेः पुरः । मरुत्पुत्रश्च भरत-द्रोणभूपतिसंयुतः ॥ ८२२ ॥
For Private and Personal Use Only
SASE525525252525255725575
॥ ३८८ ॥