________________
Shri Mahavir Jain Aradhana Kendra
शत्रुञ्जय कल्पवृ०
॥ ३८७ ॥
5252525252
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तदा रामो दुःखी लक्ष्मणं प्रत्यवग्
भुक्ते स्म भोजनपरे स्वपिति स्म सुप्ते, जन्मापि मामनु-भवानतनोत् किमन्यत् । त्यक्त्वा क्रमं यदकरोत् सुरलोकयात्रां, सापत्यजः प्रकटितः किमयं विकारः || ८०३ ॥ स्थाने स्थाने कलत्राणि मित्राणि च पदे पदे । तं देशं नैव पश्यामि यत्र भ्राता सहोदरः ॥ ८०४ ॥ न मे दुःखं हृता सीता न दुःखं लक्ष्मणो हतः । एतदेव महद् दुःखं यन्न राज्ये विभीषणः ॥ ८०५ ॥ उक्तंच मारुतिनेति तदा
पश्चात्तापहते विभीषणचले खिन्ने प्लवङ्गेश्वरे मूढे जाम्बुवति प्लवङ्गमगणे सम्भूय भूयः स्थिते । शक्तिप्रौढदृढप्रहारविधुरे मूछ गते लक्ष्मणे श्रीरामे विलपत्यहो ! हनुमता प्रोक्तं स्थिरैः स्थीयताम् ॥ ८०६ ॥ पातालतः किमु सुधारसमानयामि, निष्पीडय चन्द्रममृतं किमु वाssनयामि ।
उद्यन्तमुष्णकिरणं किमु वारयामि कीनाशमाशु कणशः किमु चूर्णयामि ? ॥ ८०७ ॥ तदा हनुमन्तं प्रति रामोऽवग्- चतुर्णामपि भ्रातॄणां पञ्चमा मम मारुते ! | गच्छ शीघ्रं महावीर ! भातृभिक्षां च देहि मे ॥ ८०८ ॥ जगौ विभीषणो राम ! त्यज खेदं वृतिं श्रय । शक्त्या हतो नरो रात्रिं जीवत्येवोद्यमं कुरु ॥। ८०९ ॥
For Private and Personal Use Only
ESPSSP5S252525525575:5252
॥ ३८७ ॥