SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुज्जय कल्पवृ० ॥ ३८६ ॥ 2520 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्वेषां शस्त्रसङ्घातान् न्यत्कृत्य शक्तिरञ्जसा । हलिनो हृदयेऽकस्मान् न्यपतत् वह्निपिण्डवत् ॥ ७९१ ॥ लक्ष्मणो मूर्च्छितः सद्यः पपात छिन्नवृक्षवत् । तदाssशु रावणो हृष्टः स्वसेवकसमन्वितः ॥ ७९२ ।। इतो युद्धं वितन्वानो रामो विशिखपक्तिभिः । छत्रं दशास्यशीर्षस्थं चिच्छेद रावणं रथम् ॥ ७९३ ॥ लक्ष्मणं मूच्छितं श्रुत्वा ऽभ्येत्य तत्र तदा द्रुतम् । दृष्ट्वा च मूच्छितो रामो न्यपतद् वसुधातले ॥ ७९४ ॥ क्षणात् स्वसेवकैर्वात प्रक्षेपादिभिरादरात् । सचेतनीकृतो रामः प्राहेति करुणस्वरम् ॥ ७९५ ॥ अहत्वा वैरिसङ्घात-मदत्वा जानकीं मम । लङ्काराज्यमदत्त्वा त्वं विभीषणाय - कथं गतः ? ॥ ७९६ ॥ राममेकाकिनं वैरिवेष्टितं वैरिसद्मनि । सुरलोकं व्रजन् किं न लज्जसेऽथ वदाऽधुना ॥ ७९७ ॥ त्वया विना निराधारो जातोऽहं लक्ष्मणाऽधुना । मृते त्वयि मम प्राणाः करिष्यन्ति प्रयाणकम् ॥ ७९८ ॥ For मृत्युं गते वैरि-गेहे वादिवादनम् । भविष्यति ततस्ते तु हृष्यन्ति वैरिणोऽखिलाः ।। ७९९ ॥ आशा विभीषणादीनां कथं भ्रातस्त्वया विना । मया पूर्णीकरिष्येत वद त्वमेकशोऽधुना ॥ ८०० ॥ तदा वायुसुतः प्राह बद्ध्वा दशाननं स्त्विह । आनयाम्यथवा लङ्का-वप्रं चूर्णीकरोम्यहम् ॥ ८०१ ॥ यतः - " देवाऽऽज्ञापय किं करोमि किमहं लङ्कामिहैवानये, जम्बूद्वीपमितो नये किमथवा वारांनिधि शोषये । हेलोत्पाटितविन्ध्यमन्दर हिमस्वर्ण त्रिकूटाचल-क्षेपक्षोभविवर्द्धमानसलिलं बध्नामि वारांनिधिम् ॥ ८०२ ॥ For Private and Personal Use Only 155242525252525252525251 ।। ३८६ "
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy